पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । मातंगे तु महापीठे व्याप्नोलखिलमीश्वरी ।" इतिनीत्या तत्तत्पीठावस्थाद्यैश्वर्यरूपाः क्रिया इतिः व्यवसितिश्चिच्छक्ति- श्चेति तत्त्ववृत्त्योपास्यन्ते । राजपुत्राश्च "जगतो रञ्जनाद् राजा साक्षाद् देवो महेश्वरः । तत्पुत्रा राजपुत्राः स्युः" इति श्रीपादुकोदयस्थित्या तानि तानीन्द्रियाण्युच्यन्ते । यथा च श्रीचि- द्वगनचन्द्रिकायां - “राजनात् प्रकृतिरञ्जनाच मां राजसंज्ञमनुवोधकर्मणोः । षट् त्वया पृथगमी प्रवर्तकाः पुत्रभावमधिरोपिताः शिवे ॥” इति । तत्र साधिकारत्वं कर्मप्राधान्यात् 'कर्मण्यैश्वर्यमधिकारः' इत्यु - क्तत्वात् । निरधिकारत्वं च तद्विपर्ययेण ज्ञानोद्रेकात् । अतश्च बुद्धिवी- गादीनि कर्मेन्द्रियाणि च साधिकाराः । मनःश्रोत्रप्रभृतीनि ज्ञानेन्द्रियाणि निरधिकारा राजपुत्राः । कुळेश्वरोऽहङ्कारः। तस्याभिमानशक्तिः कुळेश्वरीति तत्त्वार्थपर्यालोचनम् । अथ संहारप्रकारमाह- एकादश संहारे इति। संहारो नाम बहिरूद्वान्तानां भावानां पारमेश्वरे प्रकाशे पुनःप्रसूत्यौचित्येन वटधाना- दिनीत्या वासनात्मतयावस्थानम् । तत्र शक्तय एकादश | ताश्च सर्वान्तः- करणसमष्टिभूतमहङ्कारं बाह्येन्द्रियदशकं च भक्षयन्त्यः स्फुरन्तीत्येका- दशाभूवन्निति तत्त्वनिश्चयः । तत्र ताहगहङ्कार एवं प्रमाता | तव्यति- रेकेण परिमितस्य तस्यानुपलम्भात् । इन्द्रियाणि प्रमाणानि । तद्ग्राह्यं च प्रमेयमिति प्रमात्रादित्रिकमयं प्रमेयमन्तश्चर्वयन्त्यः कलाः संहर्च्य इत्युक्तं भवति । एतच्छत्युपश्लेषावच्छेदाच परमेश्वरस्यैकादशरुद्रत्वत्र- सिद्धिः । अथानाख्याक्रमं प्रख्यापयति – प्रयोदश तास्तुरीयपर्वणीति । तुर्यमनाख्याचक्रम् । तद्रूपे पर्वण्यवस्थाविशेषे । अनाख्यमित्याख्याशून्य- त्वमुच्यते । आख्या च पश्यन्त्यादिस्थूलवाकत्रितयस्वभावा । यथोक्तं श्रीचिद्गगनचन्द्रिकायां - 9 १. 'कित' क. पाठ:. २. 'स्थापनं' क. ख. पाठः. ३. 'शधाभू' ग. पाठः. 'म् यथोक्तं' क. पाठः,