पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । ८३ रूपतानुप्रवेशात् । यतो माणिक्यमप्यरुणश्यामलं मरतकमपि श्यामलारु- णमिति वैचित्र्यशालिनी प्रतीतिरत्रोत्पद्यते । दर्शनान्तरमर्यादयाप्यभावो नाम स्तम्भकुम्भादिकैवल्यशाली भूतलादिः कश्चिद् भावविशेष एवेत्यूरी- कृतम् । यदुक्तं - "भावान्तरमभावोऽन्यो न कश्चिनरूपणात् ।" इति । स्तम्भादेर्भावस्य च कुम्भाद्यन्योन्याभावद्वारावतीर्णमभावत्वं चाप- रिहार्यमिति भावाभावयोर्युक्ति पर्यालोचनायामैकरूप्यमेवेति ॥ ३३ ॥ ननु पौनःपुन्येन प्रसाधितमप्येतदर्थतत्त्वं तडिद्विलसितमेव केवलं परिस्फुरति । न पुनहृदयङ्गमीभवति । हृदयङ्गमीभावे च कश्चिदुपायो वक्तव्य इत्याकाङ्क्षां शिथिलयितुं पारमेश्वर्या सपर्यया भाव्यं, सा च लोकतः पृथग्भूतेत्युद्भावयन्नादौ पीठं देवतां च पर्यालोचयति अण्डमए णिअपिण्डे पीठम्म फुरन्ति कळणदेवीओ | पप्फुरइ अ परमसिवो णाणणिही ताण मज्झआरम्मि || अण्डमये निजपिण्डे पीठे स्फुरन्ति करणदेव्यः । प्रस्फुरति च परमशिनो ज्ञाननिधिस्तासां मध्ये | इति । स्वशरीरमयो हि पिण्ड: पृथिव्यादिभूतपञ्चकारब्धत्वादशे- षविश्ववैचित्र्यलक्षणमण्डमित्यध्यवसीयते । अण्डपिण्डयोरैकरूप्यमाम्नायेषु प्रसिद्धम् । यथा त्रिशिरोभैरवे - “सर्वतत्त्वमयः कायस्तचेदानीं शृणु प्रिये! | पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम् ।।" इत्यादि । यथा च परमार्थसारसङ्ग्रहे " षट्त्रिंशत्तत्त्वभूतं विचित्ररचनागवाक्षपरिपूर्णम् । निजमन्यदथ शरीरं घटादि वा तस्य देवगृहम् ॥" इति । तत्र च पीठीभूते करणदेव्य: इन्द्रियलक्षणाः शक्तयः स्फुरन्ति । आवाहनसन्निधापनतिरोधानादिव्यतिरेकेऽपि स्वयमेव स्फुटं प्रकाशन्ते । १. 'रा लोकाव', २. 'त्त्वमयं वि' ग. पाठ:●