पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१६१
मन्दारमरन्दचम्पूः ।

वर्णस्तु द्विविधः प्रोक्तो गुरुलघ्वोर्विभेदतः ।
गुरुः प्लुतो द्विमात्रोऽपि लघुः स्यादेकमात्रकः ॥
युक्तपूर्वो विसर्गान्तो दीर्घो बिन्दुयुतो गुरुः ।
तदन्यो लघुरुक्तोऽथ विकल्पगुरुरुच्यते ॥
चरणादिमवर्णस्य संयोगः क्रमसंज्ञकः ।
तस्य प्राक्स्थितबवर्णश्च पादान्तस्थश्च वा गुरुः ॥

यथा--

सज्जननिचयः परगतगुणदोषौ वीक्ष्य दोषमुत्सृजति ।
हंसो भाजनसंगतक्षीरजले वीक्ष्य नीरमुत्सृजति ॥ १ ॥

रहयुक्ताक्षरात्पूर्वे रयुक्तात्कुपुवर्णतः ।
पूर्वं वर्ण विकल्पेन गुरुं केचित्प्रचक्षते ॥
गणस्तु द्विविधः प्रोक्तो वर्णमात्राविभेदतः ।
तत्र वर्णगणस्तु स्यादक्षरत्रितयात्मकः ॥
मयौ रसौ तजभना इत्यष्टार्णगणाः स्मृताः ।
त्रिगो मो मुखलो यः स्यान्मध्यलो रोऽन्तगश्च सः ।
अन्त्यलस्तो मध्यगो जो मुखगो भस्त्रिलस्तु नः ॥

श्रीकान्तः । कपाली । राधिका । कमला । कृष्णाय । करोति । पाथसि । भवति । इति ॥

मध्याछन्दसि चोद्भूता इमे वर्णगणा मताः ।
मस्य भूमिर्देवता स्यात्संपत्तिः फलमिष्यते ॥
यस्य पाथो देवता स्यात्फलं वृद्धिः प्रकीर्तिता ।
रस्य वह्निर्देवता स्यात्फलं मरणमीरितम् ॥
सस्य वायुर्देवता स्याद्देशान्तरगतिः फलम् ।
तस्याकाशो देवता स्यात्फलं शून्यं प्रकीर्तितम् ॥
जस्य सूर्यो देवता स्याद्रोगप्राप्तिः फलं मता ।
भस्य चन्द्रो देवता स्यात्फलं कीर्तिरुदाहृता ॥
नस्य नाको देवता स्यात्फलं च सुखमच्युतम् ।

२१