पृष्ठम्:मनोहरकाव्यमाला.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक । ह्रियमाणां न जानीषे रक्षसा कामरूपिणा ॥ २४ ॥ जीवितं सुखमर्थ व धर्महेतोः परित्यजन् । ह्रियमाणामधर्मेण मां राघव न पश्यसि ॥ २५ ॥ ननु नामाविनीतानां विनेतासि परंतप । कथमेवंविधं पापं न त्वं शाधि हि रावणम् ॥ २६ ॥ ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् । कालोऽप्यङ्गी भवत्यत्र शस्यानामिव पक्तये ॥ २७ ॥ त्वं कर्म कृतवानेतत्कालोपहतचतनः । जीवितान्तकरं घोरं रामाद्वयसनमाप्नुहि । २८॥ हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह । ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः ॥ २६ ॥ आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥३०॥ हंससारससंघुष्टां वन्दे गोदावरी नदीम् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ ३१॥ दैवतानि च यान्यस्मिन्वने विविधपादपे । नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥ ३२ ॥ यानि कानिचिदप्यत्र सत्त्वानि विविधानि च । सर्वाणि शरणं यामि मृगपक्षिगणानि वै ॥ ३३॥ ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् । विवशा ते हृता सीता रावणेनेति शंसत ॥ ३४॥ विदित्वा तु महाबाहुरमुत्रापि महाबलः । आनेप्यति पराक्रम्य वैवस्वतहतामपि ॥ ३५॥ सा तदा करुणावाचो विलपन्ती सुदुःखिता। वनस्पतिगतं गृधं ददर्शायतलोचना ॥ ३६ ॥