पृष्ठम्:मनोहरकाव्यमाला.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७३ ) मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ ३५ ॥ यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । तीव्रांशुः शिशिरांशुश्च भयात्संपद्यते दिवि ॥ ३६ ॥ निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः । भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च ॥ ३७॥ मम पारे समुद्रस्य लङ्का नाम पुरी शुभा । संपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ ३८ ॥ प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा ३६ ॥ हस्त्यश्वरथसंवाधा तूर्यनादविनादिता । सर्वकामफलैवृक्षः संकुलोद्यानभूषिता ॥ ४० ॥ तत्र त्वं वस हे सीते राजपुत्रि मया सह । स्मरिष्यसि नारीणां मानुषीणां मनस्विनि ॥ ४१ ॥ भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि । न स्मरिष्यसि रामस्य-मानुषस्य गतायुषः ॥ ४२ ॥ अगुल्या न समो रामो मम युद्धे स मानुषः । तव भाग्येन संप्राप्तं भजस्व वरवर्णिनि ॥४३॥ एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥.४४ ॥ कथं वैश्रवणं देवं सर्वदेवनमस्कृतम् । भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ ४५ ॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुबुद्धिरजितेन्द्रियः ॥ ४६॥ अपहत्य शचीं भार्या शक्यमिन्द्रस्य जीवितुम् । नहि रामस्य भार्या मामानीय स्वस्तिमान्भवेत् ॥४७॥