पृष्ठम्:मनोहरकाव्यमाला.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि। उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ५० ॥ न कादली न प्रियकी न प्रवेणी न चाविकी। भवेदेतस्य सदृशी स्पर्शऽनेनेति मे मतिः ।। ५१ ॥ एष चैव मृगः श्रीमान्यश्च दिव्यो नभश्चरः । उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥ ५२ ॥ यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मण । मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥ ५३ ॥ एतेन हि नृशंसेन मारीचेनाकृतात्मना । वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः ॥ ५४ ।। उत्थाय बहवो येन मृगयायां जनाधिपाः । निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ॥ ५५ ॥ इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् । अहमेनं वधिष्यामि ग्रहीष्याम्यथवा मृगम् ॥ ५६ ॥ यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् । पश्य लक्ष्मण वैदेह्या मृगत्वचि गतां स्पृहाम् ॥ ५७ ॥ त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति । अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ ५८॥ यावत्पृषतमेकन सायकेन निहन्म्यहम् । हत्वैतच्चर्म वादाय शीघ्रमेष्यामि लक्ष्मण ॥ ५६ ।। प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण । भवाप्रमत्तः प्रतिगृह्य मैथिली प्रतिक्षणं सर्वत एव शङ्कितः ॥६०॥