पृष्ठम्:मनोहरकाव्यमाला.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुस्राव नयनैः स्त्रीणामस्रमायाससंभवम् । मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ।। ३२ ।। दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् । निपपातैव दुःखेन कृत्तमूल इव द्रुमः ।। ३३ ॥ ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः । नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ ३४॥ हा रामेति जनाः केचिद्राममातेति चापरे । अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन् ।। ३५ ॥ अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् । राजनं मातरं चैव ददर्शानुगतौ पथि ।। ३६॥ स बद्ध इव पाशेन किशोरो मातरं यथा। धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत ॥ ३७ ।। पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ। दृष्ट्वा संचादयामास शीघ्रं याहीति सारथिम् ॥ ३८॥ नहि तत्पुरुषव्याघ्रो दुःखजं दर्शनं पितुः । मातुश्च सहितुं शक्तस्तोत्रैर्नुन इव द्विपः ॥ ३१ ॥ प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात् । बद्धवत्सा यथा धेनू राममाताभ्यधावत ॥ ४० ॥ तथा रुदन्ती कौसल्यां रथं तमनुधावतीम् । क्रोशन्ती राम रामेति हा सीते लक्ष्मणेति च ॥ ४१ ॥ तिष्ठेति राजा चुक्रोश याहि याहीति राघवः । . सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥४२॥ नाधौषमिति राजानमुपालब्धोऽपि वक्ष्यसि । चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ ४३ ॥ स रामस्य वचः कुर्वन्ननुज्ञाप्य च तं जनम् । व्रजतोऽपि हयाशीघ्र चोदयामास सारथिः॥४४॥