पृष्ठम्:मनोहरकाव्यमाला.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ५२ ) नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः । नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ ६६ ॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥ ६७ ॥ साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा । आर्ये किमवमन्येयं स्त्रिया भर्ता हि दैवतम् ॥ ६८ ॥ सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम् । शुद्धसत्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ ६६ ॥ तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्येऽतिसत्कृताम् । रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ ७० ॥ अम्ब मा दुःखिता भूत्वा पश्येस्त्वं पितरं मम । क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति ॥ ७१ ॥ सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च । समग्रमिह सम्प्राप्त मां द्रक्ष्यसि सुहृवृतम् ॥ ७२॥ --::-- वनगमनम् । अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः । उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥१॥ तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया। राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ २ ॥ अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् । अपि मातुः सुमित्राया जग्राह चरणौ पुनः ॥ ३ ॥ तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् । हितकामा महाबाहुं मूर्युपाघ्राय लक्ष्मणम् ॥ ४॥ सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृजने । रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ ५॥