पृष्ठम्:मनोहरकाव्यमाला.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६ ) अभेद्य कवचे दिव्ये तूणी चाक्षय्यसायको । आदित्यविमलाभौ द्वौ खड्गौ हेमपरिष्कृतौ ॥ ३० ॥ सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि । सर्वमायुधमादाय विप्रमात्रज लदमण ॥ ३१ ॥ स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः । इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ ३२॥ तद्दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम् । रामाय दर्शयामास सौमित्रिः सर्वमायुधम् ॥ ३३ ॥ दशरथः दत्त्वा तु सह वैदेह्या वाह्मणेभ्यो धनं बहु । जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥१॥ ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे । मालादामभिरासक्के सीतया समलंकृते ॥ २॥ ततःप्रासादहर्म्याणि विमानशिखराणि च । अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ ३ ॥ न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः । प्रारुह्य तस्मात्प्रासादाहीनाः पश्यन्ति राघवम् ॥४॥ पदाति सानुजं दृष्ट्वा ससीतं च जनास्तदा । ऊचुर्बहुजना वाचः शोकोपहतचेतसः ॥ ५॥ यं यान्तमनुयाति स्म चतुरङ्गबलं महत् । तमेकं सीतया सार्घमनुयाति स्म लक्ष्मणः ॥६॥ ऐश्वर्यस्य रसः सन् कामानां चाकरो महान् । नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात् ॥ ७ ॥ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि । तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥८॥