पृष्ठम्:मनोहरकाव्यमाला.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४ ) कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः। तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ १२० ॥ महाबातसमुद्भूतं यन्मामवकरिष्यति । रजो रमण तन्मन्ये पराय॑मिव चन्दनम् ॥ १२१ ॥ शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा। कुथास्तरणयुक्तेषु किं स्यात्सुखतरं ततः ॥ १२२ ॥ पत्रं मूलं फलं यत्तु अल्पं वा यदि वा बहु । दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ १२३ ॥ न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः । आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ १२४ ॥ न च तत्र ततः किंचिद्रष्टुमर्हसि विप्रियम् । मत्कृते न च ते शोको न भविष्यामि दुर्भरा ।। १२५ ॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना । इति जानन्परां प्रीतिं गच्छ राम मया सह ॥ १२६ ॥ अथ मामेवमव्ययां वनं नैव नयिष्यसि । विषमद्यैव पास्यामि मा वशं द्विषतां गमम् ॥ १२७ ॥ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् । उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ १२ ॥ इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे। किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ १२६ ॥ इति सा शोकसंतप्ता विलय करुण बहु । चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् ॥ १३० ।। सा विद्धा बहुभिर्वाक्यदिग्धरिव गजाङ्गना । चिरसंनियतं वाष्पं मुमोचाग्निमिवारथिः ॥ १३१ ॥ तस्याः स्फटिकसंकाशं वारि सन्तापसंभवम् । नेत्राभ्यां परिसुनाव पङ्कजाभ्यामिवोदकम् ॥ १३२॥