पृष्ठम्:मनोहरकाव्यमाला.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २५ ) न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः। मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः ॥ ६ ॥ न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः । अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ १० ॥ चतुर्भिर्वेगसम्पन्नहयैः काञ्चनभूषणैः । मुख्यः पुष्परथो युक्तः किं न गच्छति तेऽग्रतः ॥ ११ ॥ न हस्ती चाग्रतः श्रीमान्सर्वलक्षणपूजितः । प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥ १२ ॥ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन । भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् ॥ १३ ॥ अभिषेको यदा सज्जः किमिदानीमिदं तव । अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १४ ॥ इतीव विलपन्ती तां प्रोवाच रघुनन्दनः । सीते तत्रभवांस्तातःप्रव्राजयति मां वनम् ॥ १५ ॥ कुले महति संभूते धर्मो धर्मचारिणि । शृणु जानकि येनेदं क्रमेणाद्यागतं मम ॥ १६ ॥ राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै। कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥ १७ ॥ तयाद्य मम सजेऽस्मिन्नभिषेके नृपोद्यते । प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥ १८ ॥ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया । पित्रा में भरतश्चापि यौवराज्ये नियोजितः ॥ १६ ॥ सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् । भरतस्य समीपे ते नाहं कत्थ्यः कदाचन ॥ २० ।। ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् । तस्मान्न ते गुणाः कत्थ्या भरतस्याग्रतो मम ॥ २१ ॥