पृष्ठम्:मनोहरकाव्यमाला.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७ ) तस्मिन्पुनर्जीवति धर्मराजे विशेषतः स्खे पथि वर्तमाने । देवी मया सार्धमितोऽभिगच्छेत् कथं स्विदन्या विधवेव नारी ॥ १०६ ॥ सा मानुमन्यस्व वनं वजन्तं कुरुष्व नः स्वस्त्ययनानि देवि । यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः ॥ ११० ।। यशो यह केवलराज्यकारणा- न पृष्ठतः कर्तुमलं महोदयम् । अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः॥ ११९॥ प्रसादयन्नरवृषभः स मातरं पराक्रमाजिगमिषुरेव दण्डकान् । अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननी प्रदक्षिणम् ॥ ११२ ।। तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने । कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ ११३ ॥ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः । मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् ॥ ११ ॥ यस्य भृत्याश्च दासाश्व मृष्टान्यन्नानि भुञ्जते । कथं स भोक्ष्यते रामो बने मूलफलान्ययम् ॥ ११५ ।। क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् । गुणवान्दयितो राक्षः काकुत्स्थो यद्विवास्यते ॥ ११६ ॥ नूनं तु बलवांल्लोके कृतान्तः सर्वमादिशन् । लोके रामाभिरामस्त्वं वनं यत्र गामध्यास ॥ ११७॥