पृष्ठम्:मनोहरकाव्यमाला.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११ ) ततश्च तप्तं यदपत्यकाम्यया सुनिष्फलं बीजमिवोप्तमूषरे ॥४॥ यदि ह्यकाले मरणं यदृच्छया लभेत कश्चिद्गुरुदुःखकर्शितः । गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै ॥ ४५ ॥ अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ । अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवाभिकांक्षया ॥ ४६॥ भृशमसुखममर्षिता यदा बहु विललाप समीक्ष्य राघवम् । व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी ॥ ४७ ॥ तथा तु विलपन्तीं तां कौसल्यां राममातरम् । उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः॥४८॥ न रोचते ममाप्येतदार्थं यद्राघवो वनम् । त्यक्त्वा राज्यश्रियं गच्छेत्स्रिया वाक्यवशंगतः॥४६ ।। विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः । नृपः किमिव न वयाच्चोद्यमानः समन्मथः ॥१०॥ नास्यापराधं पश्यामि नापि दोषं तथाविधम् । येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ।। ५१ ॥ अहं हनिष्ये पितर वृद्धं कामवशं गतम् । स्त्रियायुक्तं च निर्लजं धर्मायुक्तं नृपं यथा ॥ ५२ ॥ न तं पश्याम्यहं लोके परोक्षमपि यो नरः। स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ ५३ ॥