पृष्ठम्:मनोहरकाव्यमाला.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२१ ) सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते ॥ १६६ ॥ समागमेन पुत्रस्य सावित्र्या दर्शनेन च । चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ॥ १६७ ॥ ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः । जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥ १६८ ॥ प्रागेव नागतं कस्मात्सभार्येण त्वया विभो । विरात्रे चागतं कस्मात्कोऽनुबन्धस्तवाभवत् ॥ १६९ ॥

सत्यवानुवाच-

पित्राऽहमभ्यनुज्ञातः सावित्री सहितो गतः। अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥ १७० ॥ सुप्तश्चाहं वेदनया चिरमित्युपलक्षये । तावत्कालं न च मया सुप्तपूर्वं कदाचन ॥ १७१ ॥ सर्वेषामेव भवतां संतापो मा भवेदिति । अतो विरात्रगमनं नान्यदस्तीह कारणम् ॥ १७२ ॥

गौतम उवाच-

अकस्माच्चक्षुषःप्राप्तिर्द्युमत्सेनस्य ते पितुः । नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति ॥ १७३ ॥

सावित्र्युवाच-

मृत्युर्मे पत्युराख्यातो नारदेन महात्मना । स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥ १७४ ॥ सुप्तं चैनं यमः साक्षादुपागच्छत्सकिंकरः । स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥ १७५ ॥ अस्तौषं तमहं देवं सत्येन वचसा विभुम् । पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥ १७६ ॥ चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे । लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम् ॥ १७७ ॥