पृष्ठम्:मनोहरकाव्यमाला.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०९ ) कथं त्वनर्हा वनवासमाश्रमे सहिष्यति क्लेशमिमं सुता तव ॥ ५६ ॥

अश्वपतिरुवाच- सुखं च दुःखं च भवाभवात्मकं यदाविजानाति सुताऽहमेव च । न मद्विधे युज्यति वाक्यमीदृशं विनिश्चयेनाभिगतोस्मि ते नृप ॥ ५७ ॥ आशां नार्हसि मे हन्तुं सौहृदात्प्रणतस्य च । अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि ॥ ५८ ॥ अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च । स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः ॥ ५९ ॥

धुमत्सेन उवाच- पूर्वमेवाभिलषितः संबन्धो मे त्वया सह । भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥ ६० ॥ अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः । स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥ ६१ ॥ ततः सर्वान्समानाय्य द्विजानाश्रमवासिनः । यथाविधिसमुद्वादं कारयामासतुर्नुपौ ॥ ६२ ॥ दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम् । ययौ स्वमेव भवनं युक्तः परमयामुदा ॥ ६३ ॥ सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम् । मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ॥ ६४ ॥ गते पितरि सर्वाणि संन्यस्याभरणानि सा । जगृहे वल्कलान्येव वस्त्रं काषायमेव च ॥ ६५ ॥ परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च । सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे ॥ ६६ ॥