पृष्ठम्:मनोहरकाव्यमाला.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च ।
प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ॥ ७६ ॥
सर्वोऽप्यभिजनः श्रीमान् छ्रीमतः सत्यवादिनः।
नालक्षयत रामस्य किंचिदाकारमानने ॥ ७ ॥
उचितं च महाबाहुर्न जहौ हर्षमात्मवान् ।
शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ ७ ॥
वाचा मधुरया रामः सर्वं संमानयञ् जनम् ।
मातुः समीपं धर्मात्मा प्रविवेश महायशाः ॥ ७६ ॥
तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः ।
सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥८०॥
मातृदर्शनम् ।
सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।
उपविष्ट गृहद्वारि तिष्ठतश्चापरान् बहून् ॥१॥
दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः ।
जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ॥२॥
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः।
ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाभिसत्कृतान् ॥ ३॥
प्रणम्य रामस्तान् वृद्धांस्तृतीयां ददर्श सः ।
स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः ॥४॥
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ।
न्यवेदयन्त त्वरितं राममातुः प्रियं तदा ॥ ५ ॥
कौसल्यापि तदा देवी रात्रि स्थित्वा समाहिता ।
प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥ ६ ॥
सा क्षौमवसना हृष्टं नित्यं व्रतपरायणा ।
अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला ।। ७ ।।