पृष्ठम्:मनोहरकाव्यमाला.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५७ ) भूषयामासुरव्यग्रां मुनिपत्न्यः शकुन्तलाम् ॥ ११ ॥ शुशुभे सा महाभागा विश्वामित्रसुता सती । नितरां गाधिपुत्रजा चन्द्रलेखेव विच्युता ॥ १२ ॥ अथ गुल्मलतावृक्षान् हरिणान् हरिणाङ्गनाः। उवाच कण्वः प्रेमाद्रो मुञ्चन्नश्रुकला मुहुः ॥ १३ ॥ युष्माकं परमप्रेम्णा वासितेयं सुता मम । सर्वे कुरुत कल्याणं सुखं यातु शकुन्तला ॥ १४ ॥ इति सर्वाननुज्ञाप्य कण्वो मतिमतां वरः। आहूय गौतमी‌ वृद्धां सखीं चास्याः प्रियंवदाम् ।। उवाच लक्ष्णया वाचा शिष्यौ चापि महाव्रतौ ॥ १५ ॥ यात यूयं महीभर्तुर्दुष्यन्तस्य पुरं प्रति । इमां शकुन्तलां राशि समर्प्य पुनरेष्यथ ॥ १६ ॥ इति तस्य वचः श्रुत्वा गौतमी च प्रियंवदा । मुनिः शार्ङ्गवरः शिष्यस्तथा शारद्वतो मुनिः ॥ १७ ॥ तथेति प्रतिगृह्याथ मुनेराक्षां स्वमूर्धसु । शकुन्तला पुरस्कृत्य पन्थानं प्रतिपेदिरे ॥ १८ ॥ अथ दक्षिणतस्तस्याः शिवा घोरं ववाशिरे । मृगाश्च चेलुः सव्येन वाता वान्तिस्म धूषराः ॥ १६ ॥ तदालोक्य समुद्विग्ना पथि यान्ती शकुन्तला । नितम्बिनी वरारोहा न शेके चलितुं द्रुतम् ॥ २० ॥ अथ मध्याह्नसमये प्राप्य प्राचीं सरस्वतीम् । मुनेः शिष्यौ च मध्याह्नक्रियां चक्रतुरेव तौ ॥ २१ ॥ प्रियंवदा गौतमी च सलिल तज्जगाहतुः । शकुन्तलापि तत्रैव नानार्थमुपचक्रमे ॥ २२ ॥ प्रियंवदाकरे न्यस्य अभिज्ञानाङ्गुरीयकम् । सातुं सरस्वतीतोयमगाहत सुलोचना ॥ २३ ॥