पृष्ठम्:मनोहरकाव्यमाला.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५८ ) 1 सूत उवाच- एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ॥ २६ ॥ प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः । गत्वा तु नगरं सर्वे चातुर्वर्ण्यसमाकुलम् ॥ ३० ॥ हरिश्चन्द्रस्य निकटे प्रोवाच विवुधाधिपः । श्रागच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम् ॥ ३१ ॥ धर्मप्रसादात्संप्राप्तं सर्वैयुष्माभिरेव तु । हरिश्चन्द्रोऽपि तान् सर्वाजनान्नगरवासिनः ॥ ३२॥ प्राह राजा धर्मपरो दिवमारूह्यतामिति । सूत उवाच- तदिन्द्रस्य वचः श्रुत्वा प्रीतास्तस्य च भूपतेः ॥ ३३ ॥ ये संसारेषु निर्विरणास्ते धुरं स्वसुतेषु वै । कृत्वा प्रहृष्टमनसो दिवमारुरुहुर्जनाः ॥ ३४ ॥ विमानवरमारूढाः सर्वे भास्वरविग्रहाः । तदा संभूतहर्षास्ते हरिश्चन्द्रश्च पार्थिवः ॥ ३५ ॥ राज्येऽभिषिच्य तनयं रोहिताख्यं महामनाः । अयोध्याऽऽख्ये पुरे रम्ये हृष्टपुष्टजनान्विते ॥ ३६ ॥ तनयं सुहृदश्चापि प्रतिपूज्याभिनन्द्य च । पुण्येन लभ्यां विपुलां देवादीनां सुदुर्लभाम् ॥ ३७ ।। संप्राप्य कीर्तिमतुलां विमाने स महीपतिः । आसांचके कामगमे स्वर्लोकं प्रति प्रेरिते ॥ ३८॥