पृष्ठम्:मनोहरकाव्यमाला.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४१ ) कस्मिन् संस्थीयते स्थाने विश्रब्धं केन हेतुना । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥ २३॥ हरिश्चन्द्रस्य राजर्षेः किं विधातः कृतं त्वया। इति तस्या वचः श्रुत्वा राजा स्थानच्युतस्तदा ॥ २४ ।। प्रत्यभिज्ञाय देवीं तां पुत्रं च निधनं गतम् । कएं ममैव पत्नीयं वालकश्चाऽपि मे सुतः ॥ २५ ॥ ज्ञात्वा पपात संतप्तो मूर्छामति जगाम ह । सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ॥ २६ ॥ मूर्ञ्छिता निपपातार्ता निश्चेष्टा धरणीतले । चेतनां प्राप्य राजेन्द्रो राजपत्नी च तौ समम् ॥ २७ ॥ विलेपतुः सुसंतप्तौ शोकभारेण पीडितौ। राजोवाच- हा वत्स सुकुमारं ते वदनं कुश्चितालकम् ॥ २८ ॥ पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते। तात तातेति मधुरं ब्रुवाणं स्वयमागतम् ॥ २६ ॥ उपगुह्य कदा वक्ष्ये वत्स वत्सेति सौहृदात् । कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ॥ ३०॥ ममोत्तरीयमुत्सहं तथा मलमेष्यति । न वाऽलं मम संभूतं मनो हृदयनन्दन ॥ ३१ ॥ "मयाऽसि पितृमान्पित्रा विक्रीतो येन वस्तुवत् ।" गतं राज्यमशेष मे सबांधवधनं महत् ॥ ३२॥ हीनदैवान्नृशंसेन हृतो मे तनयस्ततः।" अहं महाहिदष्टस्य पुत्रस्याऽऽननपंकजम् ॥ ३३ ॥ निरीक्षन्नद्य घोरेण विषेणाऽधिकृतोऽधुना। एवमुक्त्वा तमादाय वालकं वाष्पगद्गदः॥ ३४॥ परिष्वज्य व निश्चेष्टो मूर्च्छया निपपात ह।