पृष्ठम्:मनोहरकाव्यमाला.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३७ ) चांडालः प्राह तां दृष्ट्वा शातेयं लोकविश्रुता। न दृष्टपूर्वा केनाऽपि लोकडिम्भान्यनेकधा ॥ ६६ ॥ भक्षितान्यनया भूरि भवद्भिः पुण्यमर्जितम् । ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम् ॥ ६७ ॥ द्विजस्त्रीबालगोधातीस्वर्णस्तयी च यो नरः । अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः ॥ ६८ ॥ महाजनविरोधी च तस्य पुण्यप्रदो वधः । द्विजस्याऽपि स्त्रियो वाऽपि न दोषो विद्यते वधे ॥ ६६ ॥ अस्या वधश्च मे योग्य इत्युक्त्वा गाढबंधनैः । बद्ध्वा केशेष्वथाऽऽकृश्य रज्जुभिस्तामताडयत् ॥ ७० ॥ हरिश्चन्द्रमथोवाच वाचा परूषया तदा । रे दास वध्यतामेषा दुष्टात्मा मा विचारय ॥ ७१ ॥ तद्वाक्यं भूपतिः श्रुत्वा वज्रपातोपमं तदा । वेपमानोऽथ चांडालं प्राह स्त्रीवधशंकितः॥ ७२॥ न शक्तोऽहमिदं कर्त प्रेष्यं देहि ममाऽपरम् । असाध्यमपि यत्कर्म तत् करिष्ये त्वयोदितम् ॥ ७३ ॥ श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत् । मा भैषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः ॥ ७४ ॥ बालानामेव भयदानेयं रक्ष्या कदाचन । तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत् ॥ ७५ ॥ स्त्रियो रक्ष्याः प्रयत्नेन न हन्तव्याः कदाचन । स्त्रीवधे कीर्तितं पापं मुनिभिर्धर्मतत्परैः ॥ ७६ ॥ पुरुषो यः स्त्रियं हन्याज्ञानतोऽज्ञानतोऽपि वा । नरके पच्यते सोऽथ महारौरवपूर्वके ॥ ७७ ॥ चांडाल उवाच- मा वदाऽसिं गृहाणैनं तीक्ष्णविद्युत्समप्रभम् ।