पृष्ठम्:मनोहरकाव्यमाला.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३५ ) मित्राणि ते गतान्यस्तात्त्वमेकस्तु कुतः स्थितः ।

सूत उवाच- एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह॥४१॥ हा शिशो वाल हा वत्स रोहिताख्य कुमारक । रे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि ॥ ४२ ॥ तवाऽहं जननी वत्स किं न जानासि पश्य माम् । देशत्यागाद्राज्यनाशात् पुत्र भर्त्रा स्वविक्रयात् ॥ ४३ ॥ यदासीत्वाच्च जीवामि त्वां दृष्ट्वा पुत्र केवलम् । ते जन्मसमये विप्रैरादिष्टं यत्वमागतम् ॥ ४४ ।। दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः । शौर्यदानरतिःसत्त्वो गुरुदेवद्विजार्चकः ॥ ४५ ॥ मातापित्रोस्तु प्रियकृत् सत्यवादी जितेन्द्रियः। इत्यादि सकलं जातमसत्यमधुना सुत ॥ ४६ ॥ चक्रमत्स्यावातपत्रश्रीवत्सस्वस्तिकध्वजाः। तव पाणितले पुत्र कलशश्चामरं तथा ॥४७॥ लक्षणानि तथाऽन्यानि त्वद्धस्ते यानि सन्ति च । तानि सर्वाणि मोघानि सजातान्यधुना सुत ॥४८॥ हा राजन् पृथिवीनाथ क्व ते राज्यं क्व मन्त्रिणः । क ते सिंहासनं छत्रं क ते खङ्गः क्व तद्धनम् ॥ ४६॥ क्व साऽयोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः। मां त्यक्त्वा क्व गतोऽसि रे ॥ ५० ॥ हा कान्त हा नृपाऽऽगच्छ पश्येमं स्वसुतं प्रियम् । येन ते रिङ्गता वक्षः कुंकुमेनाऽवलेपितम् ॥ ५१ ।। स्वशरीरजः पंकैर्विशालं मलिनीकृतम् । येन ते वालभावेन मृगनाभिविलेपितः ॥५२॥ भ्रंशितो भालतिलकस्त्वाङ्कस्थेन भूपते ।