पृष्ठम्:मनोहरकाव्यमाला.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३३ ) अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् । एवं निर्भत्सिता तेन क्रूरवाक्यैः पुनः पुनः ॥ १६ ॥ रुदिता कारणं प्राह विप्रं गद्गदया गिरा। स्वामिन् मम सुतो बालः सर्पदष्टो मृतो वहिः ॥ १७ ॥ अनुशां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् । दुर्लभं दर्शनं तेन संजातं मम सुव्रत ॥ १८ ॥ इत्युक्त्वा करुणं वाला पुनरेव रुरोद ह । पुनस्तां कुपितो विप्रो राजपत्नीमभाषत ॥ १६ ॥ ब्राह्मण उवाच- शठे दुष्टसमाचारे किं न जानासि पातकम् । यः स्वामिवेतनं गृह्य तस्य कार्य विलुम्पति ॥ २० ॥ नरके पच्यते सोऽथ महारौरवपूर्वके । उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत् ॥ ३१ ॥ किमनेनाऽथवा कार्यं धर्मसंकीर्तनेन मे। यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः ॥ २२ ॥ तद्वाक्यं निष्फलं तस्मिन् भवेद्वीजमिवोषरे । एहि ते विद्यते किंचित् परलोकभयं यदि ॥ २३ ॥ एवमुक्त्वाथ सा विप्रं वेपमानाऽब्रवीद्वचः । कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव ॥ २४ ॥ प्रस्थापय मुहूर्ते मां यावद् द्रक्ष्यामि बालकम् । एवमुक्त्वाऽथ सा मूर्ध्ना निपत्य द्विजपादयोः ॥२५॥ रुरोद करुण बाला पुत्रशोकेन पीडिता। अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः ॥ २६ ॥ विप्र उवाच- किं ते पुत्रेण मे कार्ये गृहकर्म कुरुष्व मे । किं न जानासि मे क्रोघं कशाघातफलप्रदम् ॥ २७ ॥