पृष्ठम्:मनोहरकाव्यमाला.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तन्मां प्रदाय वित्तन देहि विप्राय दक्षिणाम् ।। ७८ ॥ व्यास उवाच- एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य व संशां वै विललापातिदुःखितः ॥ ७ ॥ महद्दुःखमिदं भद्रे यत्त्वमेवं ब्रवीषि मे। किं तव स्मितसंलापा मम पापस्य विस्मृताः॥२०॥ हा हा त्वया कथं योग्यं वनुमेतच्छुचिस्मिते। दुर्वाच्यमेतद्वचनं कथं वदसि भामिनि ॥ ८१ ॥ इत्युक्त्वा नृपतिः श्रेष्ठो न धीरो दारविक्रये। निपपात महीपृष्ठे मूर्च्छयाऽतिपरिप्लुतः ।। ८२ ॥ शयानं भुवि तं दृष्ट्वा मूर्च्छयापि महीपतिम् । उवाचेदं सुकरुणं राजपुत्री सुदुःखिता ॥३॥ हा महाराज कस्येदमपध्यानादुपागतम् । यस्त्वं निपतितो भूमौ रङ्कवच्छरणोचितः॥ ८४ ॥ येनैव कोटिशो वित्तं विप्राणामपवर्जितम् । स एव पृथिवीनाथो भुवि स्वपिति मे पतिः ॥ ८५ ॥ हा कष्टं किं तवानेन कृतं दैव महीक्षिता । यदिन्द्रोपेन्द्रतुल्योऽयं नीतः पापमिमां दशाम् ॥ ८६ ॥ इत्युक्त्वा साऽपि सुश्रोणी मूर्ञ्छिता निपपात ह । भर्तुर्दुःखमहाभारेणाऽसोनातिपीडिता ॥ ८७ ॥ शिशुदृष्ट्वा क्षुधाविष्टः प्राह वाक्यं सुदुःखितः । तात तात प्रदेह्यन्नं मातर्मे देहि भोजनम् । क्षुन्मे बलवती जाता जिह्वाग्रे मेऽतिशुष्यति ॥८॥