पृष्ठम्:मनोहरकाव्यमाला.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११५ ) इति ब्रुवञ्जगामाथ सहपत्न्या सुतान्वितः । उमया कान्तया सार्ध यत्राऽस्ते शंकरः स्वयम् ॥ ५६ ॥ तां दृष्ट्वा च पुरीं रम्यां मनसो ह्लादकारिणीम् । उवाच स कृतार्थोऽस्मि पुरीं पश्यन्सुवर्चसम् ॥ ५७ ॥ ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम् । देवार्चनं च निर्वर्त्य कृतवान् दिग्विलोकनम् ॥ ५८ ।। प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् । नैषा मनुष्यभुक्तेति शूलपाणेः परिग्रहः ॥ ५६ ॥ जगाम पद्भयां दुःखार्तः सह पत्न्या समाकुलः । पुरीं प्रविश्य स नृपो विश्वासमकरोत्तदा ॥६०॥ ददृशेऽथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्थिनम् । तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ॥ ६१ ॥ प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् । इमे प्राणाः सुतश्चाऽयं प्रिया पत्नी मुने मम ॥ ६२ ॥ येन ते कृत्यमस्त्याशुगृहाणाऽद्य द्विजोत्तम । यच्चान्यत्कार्यमस्माभिस्तन्ममाऽख्यातुमर्हसि ॥ ६३॥ विश्वामित्र उवाच- पूर्णः समासो भद्रं ते दीयतां मम दक्षिणा । पूर्व तस्य निमित्तं हि मर्यते स्ववचो यदि ॥ ६४। राजोवाच- ब्रह्मन्नाऽद्याऽपि संपूर्णा मासो ज्ञानतपोवल । तिष्ठत्येकदिनार्ध यत्तत्प्रतीक्षस्व नाऽपरम् ॥ ६ ॥ विश्वामित्र उवाच- एवमस्तु महाराज श्रागमिष्याम्यहं पुनः । शापं तव प्रदास्यामि न चेत्तदा प्रयच्छसि ॥ ६६ ॥