पृष्ठम्:मनोहरकाव्यमाला.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०४ ) मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥ ७८॥ तस्या निमित्तं सीताया द्वयोर्विवदमानयोः। बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ ७६ ॥ मुक्तामणिचितं चेदं रमणीयं विभूषितम् । घरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥२०॥ राक्षसानामिदं वत्स सुराणामथवापि वा । तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् ॥ ८१॥ विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् । छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ।। ८२ ॥ भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम् । काश्चनोरश्छदाश्चमे पिशाचवदनाः खराः ॥ ८३ ॥ भीमरूपा महाकायाः कस्य वा निहता रणे । दीप्तपावकसंकाशो द्युतिमान्समरध्वजः ॥ ८४॥ अपविद्धश्च भग्नश्च कस्य साङ्गामिको रथः । रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ॥ ५ ॥ कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः । शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥८६॥ प्रतोदाभीपुहस्तोऽयं कस्य वा सारथिर्हतः । पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः ॥ ८७ ॥ वैरं शतगुणं पश्य मम तैर्जीवितान्तकम् । सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः ॥ ८ ॥ हता मृता वा वैदेही भक्षिता वा तपस्विनी। न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥ ८ ॥ भक्षितायां हि वैदेह्यां हुतायामपि लक्ष्मण । के हि लोकप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥ ६॥