सामग्री पर जाएँ

पृष्ठम्:भामिनीविलासः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
भामिनीविलासे ।

राक्षसैः परीताऽशोकवनिकायां परिवृता। अतएव विवशा पराधीना सती कामप्य निर्वाच्यभीत्यादिरूपामिति यावत् । एतादृशीं दशामवस्थां श्रयत्यवलम्बत इय स्न्वयः। तस्मादैश्वर्यमदेनापि नैव दुःसङ्गः कार्यं इति तात्पर्यम् । इह मध्या स्वकीया नायिका । भयानको रसः । काव्यलिङ्गमलंकारः॥

 नन्वेवमपि सीतायाः किंचित्कालं लोकलीलान्यायेनैश्वर्यतिरोभावाभासेऽपि पुनस्तन्निरतिशयत्वस्य रावणवधाद्युत्तरं सुप्रसिद्धत्वानैतन्निदर्शनेनैश्वर्यवत्त्वाद्धर्मक्ष येण पुंसां दुर्मार्गप्रवृत्त्यादिना पापसंपादको दुःसङ्गः सर्वथा त्याज्य एवेति सिध्य- तीत्यस्खरखात्स्मरनिदर्शनेन तद्रढयति स एव सह्रुः प्रकृतनृपतिसुतं प्रति--

पुरो गीर्वाणानां निजभुजबलाहोपुरुषिका
महो कारंकारं पुरभिदि शरं संमुखयतः।
स्मरस्य स्खबलानयनसुममालार्चनपदं
वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥ ७९ ॥

 पुर इति । गीर्वाणानां देवानां पुरोऽग्रे । अहो इत्याश्चर्यं । निजेति । निज स्यात्मनो यद्भुजबलं बाहुबलं तेन आहोपुरुषिका ‘आहोपुरुषिका दर्पश्च स्यात्सं भावनात्मनि’ इत्यमरादूर्वेण धन्यंमन्यता तामित्यर्थः । कारंकारं भूयः कृत्वेति यावत् । पुरेति । साभिप्रायमिदम् । त्रिपुरदग्धेर्यपीत्यर्थः । एवंच येन परम दुर्जयत्रिपुरासुरः सपरिवारपुरोऽपि क्षणाद्भस्मीकृतस्तत्र त्रिलोचने भगवति कैव गणना पञ्चशरमशकस्येति द्योत्यते । शरं बाणं संमुखयतोऽभिमुखं संदधत इत्यर्थः। एतादृशस्य स्मरस्य मदनस्य वपुः शरीरम् । स्वगारिति । स्खः स्वर्गसंबन्धिन्यो या बाला अप्सरसस्तासां यानि नयनानि नेत्राणि तान्येव सुमानि सुष्टु सुतरां वा मा लक्ष्मीर्थेषु तानि ‘लक्ष्मीः पद्मालया' इत्यमरात्कमलानि तेषां या मालेव माला। कटाक्षपरम्परेति यावत् । तया यदर्चनं पूजनं तस्य पदं स्थानं पात्रमित्यर्थः । एता दृशमपि सत् । सद्यस्तत्कालमेव, नतु विलम्बेन । भालेति । भालस्य धूर्जटिल लाटस्य संबन्धी योऽनलः पावकस्तेन यद्भासितजालं ‘भूतिर्भसितभस्मनि’ इत्यम राद्भस्मपुत्रस्तस्यास्पदं स्थानमभूदिति सरलमेव । यस्माज्जगज्जयिनोऽपि मन्मथस्य क्षणाद्भस्मीभूतत्वं सुप्रसिद्धमेव, तदा कैव कथाधुनिकवीराणाम् । अतो नैवैश्वर्याद्याः श्रयेण धर्मविधानास्पापपरिजिहीर्षाशया तत्संपादको दुःसङ्गः कालत्रयेऽपि विधेय इत्याशयः। इह साहसी नायकः । पूर्वार्धे वीरस्तृतीयपादे यङ्गारश्चतुर्थपादे करुणः सर्वेर्मिलित्वा शान्तश्च रसः । परिकरोऽलंकारः ।