सामग्री पर जाएँ

पृष्ठम्:भामिनीविलासः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
करुणविलासः ।

प्रेऽप्यसंभावितत्वात् । तस्मादत्रानन्दजनकत्वमात्रसादृश्येनोभयोः कार्यकारणभावः परिणामालंकारध्वननार्थमारोपित इत्येवावश्यं वाच्यम् । तत्रापि तादृडिबन्धाभि- व्यञ्जकपुस्तकमात्रेण नैव रसोत्पत्तिः किंतु तद्यञ्जितशब्दश्रवणादिनैवेति सर्वानुभ- वसिद्धम् । तथा च प्रकृते निरुक्तमहारामायणनिबन्धश्रवणद्वारा जायमानमानस- वृत्तिविशेषरूपे रसरूपानन्दजनके शाब्दबोध एव प्रकृतनायिकाविलाससमकक्षान- न्दजनकत्वेन तत्परिणामत्वोक्तिर्युक्तैवेति दिक् । न चेदं वक्रमिवेति सांप्रतम् । प्रकृतस्य पद्यस्य रामवाक्यत्वोपपादनेनातिसारल्यात् । तानन्तरेण तद्राहित्येन । नोऽस्मद्वर्णनैकप्रधाना । अत एव सुकविता । निरुक्तरामायणाख्यमहाकाव्यरचने- त्यर्थः । चेतोहरा मन्मनोहरणनिपुणा कथं भविता भविष्यतीत्यन्वयः । यद्वा सुकविता नयेतोहरा कथं भवितेति संवन्धः ॥

या तावकीनमधुरस्मितकान्तिकान्ता
भूमण्डले विफलतां कविषु व्यतानीत् ।
सा कातराक्षि विलयं त्वयि यातवत्यां
राकाधुना वहति वैभवमिन्दिरायाः ॥ ११ ॥

 या तावकीनेति । हे कातराक्षि, या तावकीनेति । त्वदीयमुग्धस्मेरदीप्ति- बद्रम्येत्यर्थः । एतादृशी राका पूर्णमासीनिशा भूमण्डले कविषु वाल्मीकिप्रभू- तिषु विफलतां सत्याम् । उक्तस्मितकान्तौ किं राकारजन्येति ‘दृष्टं चेद्वदनं तस्याः किं पद्मन किमिन्दुना' इत्यादिवन्निष्प्रयोजनतामिति यावत् । व्यतानीत् । परि- विस्तारिताभूदित्यर्थः । तावकीनेत्यादि सप्तम्यन्तपाठे तु भूमण्डलविशेषणमिदम् । सा त्वयि विलयं यातवत्यां सत्यम् । अधुनेन्दिराया लक्ष्म्या वैभवमेश्वर्य वह- तीति योजना ॥

मन्दस्मितेन सुधया परिपिच्य या मां
नेत्रोत्पलैर्विकसितैरनिशं समीजे।
सा नित्यमङ्गलमयी गृहदेवता मे
कामेश्वरी हृदयतो दयिता न याति ॥ १२ ॥

 मन्देति । मन्दहासरूपयेत्यर्थः । यद्यपि स्मितपदस्येव 'ईषत्फुल्लकपोलाभ्यां कटाक्षेरप्यनुल्बणैः । अदृष्टदशनो हासो मधुरस्मितमुच्यते ॥” इति शाईदेवोकेर्म-