पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२ )
आग्नेये नैऋत्ये वेष्टदिने संस्थितस्य योऽर्कस्य ।
शङ्कुच्छाये कथयति वर्षादपि वेत्ति सूर्य सः ॥
कथितोऽस्ति यदुत्तरं कोणाशङ्कोरानयनेत स्फुटमस्ति ।
संज्ञाध्यायकथनस्य किमपि प्रयोजनं नासीत् ॥
प्राचार्य कथमेतस्याध्यायस्योल्लेखः कृत इति न जानीमः |
ध्यान ग्रहोपदेशाध्याये-- चैत्रादौ मासगरणानयनम् । चैत्रादौ दिनादिकं तिथि
ध्रुवसाधनम् । इष्टमासादौ रव्यानयनम् । प्रतिमासं शशिकेन्द्र तिथिध्रुवक्षेपयोग-
नयनम् । प्रतिदिनचालनम् | चन्द्रसाधनमौदयिकरविसाधनञ्च ज्यावण्डकानि
केन्द्रज्या साधनञ्च यथा -
त्रिंशत् सनवरसेन्दुर्जिन तिथिविषया गृहाधंचापानाम् ।
अर्धज्याखण्डानि ज्याभुक्तैक्यं स भोग्य फलम् ||
गतभोग्यखण्डकान्तरदलविकलवधाच्छतैर्नवभिराप्तैः
युतीनं
इत्याचार्योक्तभोग्यखण्डस्पष्टीकरणमेव
तद्युतिदलं
भोग्यादूनाधिक
ध्यायस्य स्पष्टाधिकारे 'यातष्ययोः खण्डकयोर्विशेष: शेषांशनिघ्नः' इत्यादिना
भास्कराचार्येण कथितम् । भास्कराचार्येण खार्क १२० मिता त्रिज्या गृहीता,
अत्राचार्येण खतिथि १५० मिता त्रिज्या गृहीता । इत्यतीववैचित्र्यं यत्सर्वत्रैव
श्रीपतिनाऽऽचार्यश्लोकोक्तविषया एव छन्दोन्तरेण लिखिताः परं कि कारण
यदपूर्वं भोग्यखण्डस्पष्टीकरणं न लिखितम् । चन्द्र भुजफलसंस्कार, तिथो
फलसंस्कारश्च | इत्यादयः सर्वे विषया अपूर्वाः सन्ति । अवाध्याये ये केचन
विषया लिखिताः सन्ति ते सूर्यसिद्धान्ते सिद्धान्तशेखरे, सिद्धान्तशिरोमणी न
सन्ति ।
i
भोग्यम् ||
सिद्धान्तशिरोमरोहमगिता-
अनुगृहीतोऽस्म्यहं श्रीडाक्टर सत्यप्रकाश डी० एस० सी० महोदयानां
यैराङ्गलभाषायां कृपया ग्रन्थस्यास्य प्रस्तावना समरचि ।
सम्पादकमण्डलस्यान्ये
झा,
श्रीविश्वनाथ
सहयोगिनः ज्योतिषाचार्या: श्रीमुकुन्दमिश्राः,
श्रीदयाशंकरदीक्षिताः, शास्त्रिण: श्रीओदत्तशमरणश्व सर्वे एवं
मम धन्यवादस्य पात्रता मर्हन्ति । एतेषाममूल्य सहयोगेनवायं महान् ग्रन्थः सुचारु-
रूपेण सम्पूर्णतामगच्छत् ।
'पद्मश्री प्रकाशनालयस्य' स्वामिने रमेशचन्द्र शर्म रोऽपि धन्याञ्जलिर्भवतु
यस्य महता परिश्रमेण ग्रन्थस्य प्रकाशनं कालेनैवाभवत् ।
. अन्येभ्य: सर्वेभ्योऽपि धन्यवादान् प्रदर्द, यैरल्पमपि साहाय्यं विधायाहं
कृतार्थीकृतोऽस्मि, इति शम् ।
भृगु -श्राश्रमः
३०-३-६६
}
विदुषामनुचर:
रामस्वरूप शर्मा