पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बझसिन्दिव्याख्या A याश्चोपासनाविधायकः श्रुतय उक्ताः, तासु स क्रतुं कुर्वीत” इत्येषा तावच्छूतेः सकलविशेषनिर्मुक्तस्य निरुपाधेरात्मतवस्योपासनं निर्विशेषचलीमावफलं न विधत्ते; किंतु ‘‘ मनोमयः प्राणशरीरो भारूपः इत्यनुवृत्तेर्मनोमयादिविशेषोपाधिकस्य सोपारान्मनोऽनुचिन्तनमैश्वर्यफलम् ; ऐश्वर्यमनुभूय पश्चात् क्रमेण वा वरूपाविर्भावलक्षणं मुक्तिफलं विधत्ते, न तु साक्षान्मुक्तिफलम् । अतो न तत्र निर्विशेषात्मवादिनाम् “ अपहत- पाप्मा विजरो विमृत्युः” इत्यादीनाम् “” अस्थूलमनणु” इत्यादीनां वाक्या नामन्वयो घटते । नामरूपे शब्दाशीवुपायी यस्य मनोमयादिरूपस्यात्मनः तस्यानुध्यानमिति विग्रहः । तथा “ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत” इत्यत्रापि रक्तः पटो भवति’ इतिवत् उपपदसंक्रान्तो विध्यर्थः । तेन नास्योपासनाविधौ तात्पर्यम्; अपितु ‘तमेव ’ इत्यन्यनिवृत्तौ । तथाहि तत्राकाशादितच्वानां भेदं प्रतिपाद्यात्माभेदः प्रतिपादितः । तथाच “ विरजः पर आकाशात् ” इति पूर्वार्धे आकाशात्परत्वमुक्तम् । तत्र तथैव प्रज्ञा करणे प्राप्ते ‘तमेव' इत्येवकारेण ‘नाकाशात्परत्वेनात्मनि प्रज्ञा कर्तव्या, अपित्वकाशभन्तेर्भाव्यैव केवलः ' इत्येवकारार्थतात्पर्यम् । यदि तु नैवं व्याख्यायिते, तदा एवकारोऽनर्थकः स्यात् । न चास्य निवत्यन्तरमस्ति तयाच कैवल एवात्मा ध्येयो नाकाशादीति । एतदेव “ नानुध्यायाद्वाइ- म्छब्दान् वाचो विग्लापनं हि तत् ” इत्यनेन प्रज्ञाकरणवाक्यतापनेन प्रमुच्यते ॥ न त्र वाच्यश्--शब्दस्यानुध्याननिषेधोऽयम् , नार्थस्येति ; यतः शब्दमात्रस्यनुध्यानमप्रसक्तवान्न निषेध्यम् । अतः शब्दपूर्वकत्वात् शब्दार्थानुध्याननिषेध एवायमिति । 'तथा “ आत्मेत्येवोपासीत ” इत्यय मप्येवकारश्रवणादन्यनिवृत्तिपरो विधिः, नोपासनापरः । तथा “ निदि ध्यासितव्यः” इत्ययमपि नोपासनाविधिः; यस्मात् “ आत्मनस्तु कामाय” इत्युपक्रमत् " ३३ सर्वं यदयमात्मा ’ इत्युपसंहाराश्च आत्मखरूपपरमेक मिदं वाक्यम् । अतो यह “ जामि वा एतक्क्रियते " इत्युपक्रमात् " उपांशुयाजमन्तरा यजतेऽजामित्वाय " इत्युपसंहारादेकवाक्यत्वे स्थिते, तदन्तर्गतानां "विष्णुरूपांशु थष्टव्यः " इत्यादीनां न पृथग्विधिवम् , एव न केवलं "निदिध्यासितव्यः" इत्यादयस्तदन्तर्गता न पृथग्विधयः, अपितु यस्मादीदृक्खयोऽयमारमा, तस्मात् वनाविकमईतीत्येवम् अहं कृस्य