पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

288 भक्षसिद्धिव्याख्या तायां पर्यवसितः; अथवा क्रियासिद्धिपरः, क्रियात्मनो विषयस्य मत; कार्यता गम्यते ; तत्राचे पक्षे विधिः स्वात्मनि पर्यवसितः, शब्दोऽb इयात्मप्रतिपत्तिविषयो नियोगः काये इत्यत्रैव पयवसितः । द्वितीये विषय सिड विधिः पर्यवसितः, शब्दोऽपि तथेति अद्वयात्मप्रतिपत्तिरहेतुझा अप्रमाणिका स्यात् । अथ नियोगात् “ विजरो विमृत्युर्विशोकः" इत्यादि पदानां सामानाधिकरण्यात् कचित्, अन्यत्रान्यथा वा वैयधिकरण्येन में संबन्धात् आमरूपाधिगतिर्भविष्यतीति चेदत आह-विनियोगादिति । विनियोगादात्मखरूपाधिगतिर्या, अस्या आत्मस्वरूपाधिगतेः आत्मा ज्ञातव्यः' इति या ज्ञानक्रिया विहिता तदर्थता तस्परता, नामस्वरूप परता । 'विरनादिस्वरूप आत्मा ज्ञातव्यः’ इत्येवपरा, न पुनः विरजादिरूप आत्मा’ इत्येवंपरेत्युक्तं भवति । अतश्च ज्ञानक्रियापर्यव- सितात्माधिगतिरतपरा आत्मस्वरूपपरा न भवन्ती नात्मस्वरूपे प्रमाणम् । यथा विधिस्तुतिपरा अर्थवादोत्था बुद्धिः 'पूजा काकाय ’ इत्यत्रैव पर्यव सिता, न पुनः “ अद्वय आत्म' इत्यात्मखरूपे । तत्रोभयथा अद्वयारम रूपपरत्वभवः । यस्परश्च शब्दः स शब्दाथ लोके । अतोऽद्वयात्म- प्रतिपत्तिरप्रमाणिका; यथा “प्रजापतिर्वपामुदक्खिदत् ’ इत्यादिवृत्तान्तेषु । वसावन्यथा वेत्यस्य वैयधिकरण्येन वेत्यर्थः । तत्र च यतो वा इमानि भूतानि जायन्ते ” इत्याद्युदाहरणवीचिर्न खनिष्ट नापि क्रियासिद्धिनिष्ठः ; किंतु आत्मस्वरूपमेव विधीयते । आत शब्दस्य तत्परत्वात् स एव तत्र प्रमाणमिति नार्हतामप्रतिपत्तरप्रमाणिक, केति चेदत आह-विधिरिति । अनुष्ठेये हि विषये विधिः पुंसां प्रवर्तकः ; अनुष्ठेया च क्रिया; अतः क्रियागोचरस्वात् सिद्धरूपतया स्वशब्देनोपात्तेऽनुष्ठेये आत्मद्रव्ये विधिर्न व्यापाराय क्षमः । वृत्तौ सिद्धवदिति स्वार्थे वतिः । यथा चान्यत् घटादि सिद्धं स्वशब्देनोपादीयते तथा आत्मपीत्यर्थः । ननु द्रव्यं चेन्न विधीयते। कथं तर्हि “दश्ना जुहोति" इत्यादौ गुणाविधिः ? उच्यते- तत्रापि नियैव विधीयते ; ननु सा " अमिहोत्रं जुहोति ” इत्यतः प्रातैव । बढम् । शुणविशिष्टा तु न प्राप्तां । कथं तfईं स गुणविधिरुच्यते ? प्राप्तप्राप्त