पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगझण्डः 25B मुख्य एव कार्यकारणभाव एकत्वावतारोपायो मविष्यति ; तयापि प्रपभ सत्यता न व्याहन्यत इत्याशङ्कयाह -स चेति । स च मुख्य एकत्व विरोधी ; तेनामुख्यो गृह्यत इत्यर्षेः । ननु मुख्येऽपि कार्यकारणभावेकार्यात्मना नानात्वं कारणात्मना चैकत्वमिति नैकत्वस्य कश्चिद्विरोध इत्याशङ्कय तन्निवेषयति-एकमिति । किंच यादि कार्यात्मना नानात्वं ततः कार्यस्यापि सत्यत्वात् / तत्सत्यम् " इति तच्छब्दोक्तस्य कारणस्यासाधारण्येन सत्यत्वं श्रुतिर्नावधारयेत्; अच घारयति च । अन न कार्यात्मना नानात्वमित्याह – तत्सत्यमिति । ननु कार्येऽपि सत्यधृतिरस्ति ः यथा – “मृत्तिकेत्येव सत्यम्” इति ‘‘प्राणा वै सत्यम् ” इति च । उच्यते - यया अन्तरतमे मुख्य आत्मनि विवक्षिते

  • अन्यांऽन्तर आत्मा प्राणमय ” इत्यात्मशब्दक्तं बोधयितुं प्राणमयादिषु

प्रयुज्यते ; न चैतावता तेषां मुख्यमात्मत्वम् तथा मूलकारणमुख्यसत्यत्व विवक्षया मृत्तिकायामज्ञासिद्धसत्यत्वे करणे प्राजेषु चासिद्धसत्यत्वेषु “ तेषा मेष सत्यम्” इति मुख्यसत्यविवक्षया सत्यशब्दः प्रयुक्त इत्यदोषः । कार्यात्मना नानात्वाभावे श्रुतिद्वयमपरमाह –अन्यत्रेति । अत्रैव हेत्वन्तर माह--भेदेति । 'एकत्वमविराधेन ’ इत्यत्र वर्णितमत्र स्मर्तव्यम् । तस्मादेतत्समस्तभृत्यविरोधेन यथा बिम्बारप्रतिबिम्बानि विकल्पाः, वर्णाम्यश्र पदानि विकल्पाः, तथा जगद्विकल्पस्यात्मोपादानम् । तथा सृष्टिञ्चति र्वर्धत इत्याह--एतदिति । दृष्टान्तद्वयं विवृणोति--यथा हीति । यया बिम्बात् प्रतिबिम्बानि संभूतानीत्युच्यन्ते न च तानि परमार्थतः सन्ति, तथा ‘ आत्मन आकाशः संभूतः , आकाशाद्वायुः " इत्युच्यत इति । किंच खमेऽपि सृष्टिश्रुतिरस्ति ; न च तावता तत्र रथादीनां सत्यवम् । तद्वदेषापि भूतसृष्टिर्भविष्यति, आत्मैकत्वप्रतिपति भरत्वादित्याह - आअपिचेति । किंच रयादपि मूतसृष्टिः पारमार्थिकी, यदि स्वयमेव वाचारम्भणभृत्या मत्तिकेत्येव सत्यम् " इति कारणमात्रस्य सत्यत्वमवधारयन्त्या पारमा र्षिकी सोक्ता; न चैतदस्तीत्याह-खथमिति । एवं सृष्टिभृतीनां गतिमुक्त्वा ऐश्वर्य श्रुतीनामाह--ऐश्वर्येति । सगुण विद्यायां वर्गादिस्थानीयं फलमिहानेकषादिभावः श्रूयते ; न तु मोक्षः स B5