पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगाण्ड: 245 इति आत्मशब्देन प्रत्यगात्मवृत्तिना स्वात्मवाचिना जीवो निर्दिष्टः । न चान्यत्वात्मा भवति । तथा "येऽन्यां देवतामुपास्त अन्योऽसावन्योऽह मिति न स वेद" इति जीवपरयोर्चेददर्शनं निन्दया निषिद्धम् । अतो ऽनयोरनन्यत्वमित्यर्थः । यत एव जीवब्रह्मणोरनन्यत्वम् । अत एव मधुनि नानारसवत् नदीसमुद्रवच्च नानयोरविभागोपपतिमक्षिः ; विमगे हि सा भवति, नानन्यत्वे इत्यभिप्रायेणाह- अत इति । किंच सावयवानामन्योन्यावयव- मिश्रतालक्षणोऽविभागों भवति च ‘निष्कलः" इति श्रुते । आमा रनवयवः । अतो नायाविभागोपपत्तिरित्याह--निरवयव इति । एका दशेन्द्रियाणि पञ्चमहाभूतानि षोडश कलाः, तद्रहितत्वेनात्मनो निष्कलशब्दे नानवयवत्वमुक्तम् । ११ तथा—‘यथाग्नेर्वलतः क्षुद्रा विस्फुलिङ्गा व्युचरन्ति, एवमेवास्मा दात्मनः” इत्यादिश्रुतेः जीवस्य बलकार्यत्वम्, कार्यस्य कारणभावापचि- जैलप्राप्तिरित्ययमपि पक्ष नेत्याह—नापीति । सर्वदा कार्यमुपादानकार- णात्मकम् । अतोऽस्य तद्भावापत्तिर्नित्यसिड, न विद्यसाध्या ; विद्या साध्यश्च मोक्षः श्रुत इति भावः । अथ कार्यस्य नित्यं कारणात्मत्वेऽपि जैवस्य कार्यरूपस्य विनाशः कारणे बह्मणि लयो मोक्षः; ततो जीवस्यो- च्छेद एव मोक्षः स्यात् । तत्र विद्ययामृतमश्नुते" इति श्रुतिविरोधः । तदा हि विद्यया उच्छेदः प्रसज्येत, नामृतवममरवम् । किंच नात्मन उच्छेदं कश्चिदिच्छति । न च निष्प्रमाणं फलं भवति । तत्र निष्फलैव विद्य स्यान । अपिच जीवब्रह्मणोस्तावदाकाशघटाकाशयोर्वि भेदस्य- पाधिकत्वात् कार्यकारणभावो नास्त्येव । यश्चाप्यसौ प्रसिद्धःतत्रापि परमार्थतो नास्तीत्युक्तम् । किं स्वातन्त्र्येण ? न, वाचारम्भणश्रुत्या विकारा नृतत्वप्रतिपादनात् ३ तथाहि- विकारो घटादिः ‘घटः’ इति नामधेयं च वाचा केवलमारभ्यते, न तु तचतोऽस्ति । कारणमात्रमेव तु सत्यम् । मृत्तिकेत्येव तु सत्यमिति । वागिति व्यवहारो लक्ष्यते ; तेन व्यवहार साधनमात्रमिदं घटादि, न तध्वतोऽस्तीत्यर्थः ।