पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः ४४ प्रतीत एव प्रत्ययं विशिनष्टि । न चान्नवचनप्रामितः, तस्य वक्तृप्रस्तष मात्रे प्रामाण्यात्; अर्यस्य च तत एव वक्तृप्रत्ययादुत्तरका प्रमितेः ततः पूर्वमेव च विशिष्टप्रत्ययप्रतीतेः । तस्मात्प्रतीतिमात्रः प्रवृत्तिहेतु- स्तप्रत्ययानुमितौ विशेषणम् , न स्मृतो न प्रमित इति । तदयुक्तम्; पञ्चविधा हि प्रतीतिः -प्रमाणसंशयविपर्ययविकल्पस्मृतिरूपा । तत्र मया प्रतत्याि प्रवृत्तिहेतुः प्रतीतमात्र उच्यते, तयावश्यं प्रमाणदिषु मध्येऽन्ध तरया भाव्यम् । तत्र न तावत्स्मृतिः, प्रागनवगतेः; अवगतं हि स्मर्यते । न संशयःउभयकोटिसंस्पर्शबिरहात् । न च विकल्पः ; स हि वस्तु शून्यम् ; तदुक्तम् -- शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः" इति । तत्र प्रवृत्तिहेतुप्रतीतिश्चेत् तद्विषयवस्तुशून्या स्यात् , ततः प्रवृत्तिहेतोरभावा- तत्प्रत्ययस्यापि प्रयोज्यवद्धगतस्य बालेनानुमीयमानस्य वस्तुशून्यतया विकल्पत्वं प्रसज्येत । तदा च प्रवृत्तिहेतु वस्तु नास्येव; को विध्येय भविष्यति ? न च विपर्ययः, वनस्तत्र प्रवृत्तिहेतौ यथार्यवे प्रयोज्य- प्रत्ययस्याभिमते सत्यार्थग्राहिणी सती बालस्य प्रवृत्तिहेतुः प्रतीतिः कथ मर्यशून्या स्यात्? स्मृतित्वं च निरस्तम् । पारिशेष्यान् प्रमाणमित्यापन्ना प्रवृत्तिहेतोः प्रमाणान्तरगोचरता । यत्र प्रयोज्यप्रत्ययाद्वालस्य प्रवृत्तिहेतुः प्रमितिः ; स च प्रत्ययः शब्दोत्थ इत्यनन्यप्रमाणकत्वमुपम् ; तदप्ययुक्तम् प्रयोज्यवृद्धस्य हि शब्दोथःन बालस्य । न चान्यप्रत्ययेनान्येऽवबुध्यते । तस्माद्वालः प्रत्ययान्तरेण बुध्यत इति न शब्दैकगस्यता विध्यर्यस्य । अथ मतम् -- न प्रयोज्यप्रत्ययेन बाल बुध्यते, आपतु प्रत्ययेनैव ; तेन तस्य प्रवृत्यनुमितशब्दोत्यप्रयोज्यप्रत्ययस मथ्र्येन तु ततः; शब्दैक -ज्ञानम् । तत् । गम्यत्वमिति । तत्र पृच्छामःयद्वाळस्य वं फतमत् प्रमाणम् : न तावच्छाब्दम् ; शब्दज्ञानाद्धि यदयज्ञान तच्छाब्दम् ; न च अपितु बालस्य पूर्वमच्युरपन्नस्य शब्दज्ञानादर्थज्ञानम् , प्रयोज्यस्य । यच्छब्दारप्रवृत्तिहेतुरूपार्थज्ञानं बालेन प्रवृच्यानुमितं ततश्च बालस्य ज्ञानं । न शाब्दमिति तद्रम्यस्य विध्यर्यस्यापनं प्रमाणान्तरगोचरस्वम् । अथ मतम्--न ब्रूमो बालस्य स्वज्ञानं शाब्दमिति ; किंतु यप्रयोज्यस्य प्रवत्ति हेतुविषयं ज्ञानं प्रवृत्या बालेनानुमीयते, यन्मुरवेन प्रवृत्तिहेतुं बाल: प्रत्येति, तस्य प्रामाण्ये सति तद्विषराप्रवृत्तिहेतुबलस्य प्रसिध्यति, नान्यथा।