पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25 नयांगकाण्ड संसर्गपुरःसरमालिपेत् । इतरस्तु प्रमाणान्तरसिद्धः पदार्थः यया प्रमा- णान्तरसिद्धस्तयैवानुवादभागनूद्यमानः प्रमाणान्तराङ्कशवशकृतो नापूर्वविषयं समाक्षिपेत् । अतो वेदान्तेष्वधूयमाणोऽपि पदार्थसंसर्गार्थं विधिराश्रयितव्य इति चेत् , तदयुक्तम्; एवं प्रमाणान्तरागोचरेण विधिना तच्छब्दस्य संबन्धज्ञानं निहूयेत । निह्नवे चाव्युत्पन्नस्याज्ञातसंबन्धस्यापि विधायका- च्छब्दात् प्रवृत्तिः स्यात् । न चैवम् । किंच एवं सति पदं संबन्धज्ञाना पेक्षित्वरूपं स्वधर्मे व्युत्क्रमेत् अतिक्रामेत्, वाक्यघर्म च तनैरपेक्ष्यक्षणमा श्रयेत् । अन्यथा संबन्धज्ञानानिइवे तु अज्ञाने संबन्विनि विधौ तच्छब्दस्य संबन्धज्ञानाशक्तवघेरन्यसिद्धता प्रमाणान्तरसिद्धतापद्येत । तथा सति च पदार्थान्तरेभ्योऽनुवादसन्येन विधेर्न कश्चिद्विशेषः । अतश्च यया पदार्थों न्तरमनूद्यमानत्वान्नापूर्वतंसर्गमाक्षेप्तुमलम् , तथा विधिरपीत्यर्थः । प्रमाणान्तरागोचेर नियोगे संबन्धज्ञानासमव इत्युक्तम्; तत्र परमत माशङ्कयति-शब्दादिति । न प्रमाणान्तरालमिते विध्यर्थं संवन्धज्ञानम्, अपितु जिघायकाच्छब्दादेव प्रमिते तच्छब्देन सह वाच्यवाचकसंबन्धग्रहं योऽपि मन्यते तस्यैवम् इत्यनागतेनान्वयः । नन्वेवं शब्दाज्ज्ञाते विध्यर्थं संबन्धज्ञानम् । संबन्धज्ञाने च सति शब्दाज्ज्ञानमित्यन्योन्याश्रयः स्यादित्या शङ्कचाहनान्योन्येति । न चान्योन्याश्रयरूपम् अवयं दोषः । कुतः ? यतो न बालस्य स्वयं प्रमिते विघ्यों संगतिंग्रहः । कथं नाम ? तदाह-- परेणेति । परेण प्रयोज्यवृढेन शब्दादवगते विध्यर्थे गलेन च तस्य प्रयोज्यस्य ‘गामानय’ इत्युक्ते या प्रवृत्तिः, तथा ‘नूनमस्मादनेन प्रवृत्ति हेतुभूतोऽर्थः प्रतिपन्नः’ इत्येवं सूचिते तत्र विध्यर्थं सुकरः संगतिग्रहः संबन्धज्ञानमित्यर्थः । तत्र दूषणमाह--तस्येति । यो मन्यते तस्यैवं प्रयोज्यप्रवृत्या तदीयविशिष्टप्रत्ययेऽनुमेये तस्य च विषयतया विशेषणत्वेन वा पदार्थान्तरव द्विध्यर्यस्यानुमेयत्वे कथं स विध्यर्षः शब्दैकगोचरः ? अथ तस्यानुमानस्य शब्दपूर्वकत्वात् शब्दैकगोचरो विध्यर्थ . उच्यते, ततोऽनुमानैकगोचरः कस्मान्न भवति ? यतः शब्दकोऽपि विध्यबोधोऽनुमानपुरःसरः; तथाहि 15