पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

181 किंचान्यत्वान्मुखसंनिधौ मुवन्तराण्युत्पद्यन्ते, नान्यथा । तेन मुरवमपि कारणम् । कारणानुरूपं च कार्यमुचितम् । तत्र तत्समानपरिमाणान्येव तानि युक्तानि ; न चैतत्, कृपाणाद्वल्पतराणामुपलक्ष्येः । अविद्यान्यत्वे तु तेषामल्पतानुपपत्तिरदषः । एतच्चोपलक्षणम् ; अन्येऽपि दोषाः प्रागुक्ता एव । तदयं प्रयोगः—विश्वभेदोऽयभभेदोपादान इति साध्य , भेदत्वात् , मणिकृपाणदिष्विव मुखभेद इति । परोऽपीदानीमनुमानबलेनैव प्रत्यवतिष्ठते-स्यादिति । तदिदमनुमानम् -अभेदो धर्म, मेदोपादान हैं. इति साध्ये धर्मःभेदत्वात्, यथा ‘वनम्’ इत्य मेदस्तरुभेदोपादान इति । तद्दषयति-नेति । यदि याबान मेदः स सवों भेदोपादानत्वान्मिथ्या, ततः परमाणुरप्येको न स्यात्; तदमेदोऽपि मेदोपादन एव स्यात् ; तथा वदंशतदंशोऽपीत्यनवस्था स्यात् ? ततश्च न *िचिदेकं स्यात् । अतश्चैकैकप्रमाणुसमुच्चयरूपस्तदभेदो नास्येव ; कुतो ‘वनम्' इत्यमेद- कल्पना स्यात् । अथ दूरमपि गत्वा किंचिदेकं तत्वमभेदोपादानत्व रहितमिष्यते, ततस्तेनैव हेतुरनेकान्त इत्यर्थः । तदभावत इति ; एकैक परमाणुसमुच्चयरूपस्य स्थूलस्य वृक्षादिरूपस्य भेदस्याभावत इत्र्यः ।

  • A

भेदस्य मिथ्यावे अनुमानान्तरमाह- अपि चेति । भेदो धर्म, मूषेति साध्यो घर्भः‘इदम्’ इति ’तत्” इति अर्थः’ इति वस्तु’ इति ‘सत्’ इति । प्रत्येकमभेदेनानुगतत्वात्; यो य एवं त मृषा, यथा चन्द्रमसस्तरङ्गभेदाद्यो भेदः स प्रत्येकं चन्द्रः इत्यभेदानुविद्धो मृगेत्यर्थः । तरुमेदो ‘वनम्’ इत्यभेदानुविद्धोऽपि न मृषा ; अतस्तेन । व्यभिचारो मा भूदिति प्रत्येकमित्युक्तम् । किंच कल्पनाछाघवादप्यभेदोपादाना मेदकल्पनोचिता, न तु विपर्यय इत्याह--अपि चेति । न तु भिन्नानम् _; महिमेत्यनुषज्य कस्य इस्थध्या- हार्यम् । नन् त्वयैकस्य नानावभाससामयं कल्प्यम् , न मया ; अतो ममैव राघवमित्याशङ्कच आवयोः सामर्थंकल्पना तुर्या, तथापि त्वया बहूनां बहूनि सामथ्र्योनि कल्प्यानि, मया त्वेकस्यैव समर्थातिशय इति