पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1X घंटस्य भेदोऽनुमीयते ; तयोरभेदे हि पटकार्यवत् घटकार्यमपि पूर्वमेव इत्येतेति परमतमाशङ्कयति-अथेति । तदूषयति--तदिति । एकस्त्रापि पुरुषस्य क्रमेणानेक भोजनाद्यर्थक्रियां कुर्वतः पूर्वमदृष्टा किया पश्चादृश्यते ; न च तस्य भेद इत्यर्थः । नन्वत्यन्तमभेदे पुरुषस्य तस्य सर्वार्थक्रिया समर्यत्वात् समर्थस्य च पायोगात् युगपत् सर्वकार्यदर्शनं स्यात्; अतः कस्यचित् कार्यस्य पूर्वमदर्शनं पश्चाच्च दर्शनं पूर्वावस्सातोऽविशेषान् स्यात्; अतोऽस्ति पूर्वस्मात् कश्चिद्विशेषो यदारपे पूर्वमदृष्टं कार्यं पश्चात् दृश्यते; अतो नैकान्तेन भेदः, नाप्यभेद इत्याशङ्कयति--स्यादिति । अत्रोत्तरमाह-न तर्हीति । यदि विशेषमात्रमेदेऽपि कार्यमेव घटते, न तर्हि कार्धमेदो वसवभेदं बाधते; किंतु कार्यभेदाय वस्त्वभेदानुपमर्देन विशेषमात्रभेदोऽनुमीयेत, अभिन्नेऽपि वस्तुनि तावतैव कार्यमेदोपपत्तेः । अतो यदुक्तं कार्यमेवाद्वस्तुभेद इति तदेवं सति विघटितामित्यभिप्रायः । ननु विशेषमात्रभेदेऽपि नाद्वैतसिद्धिरित्याशङ्कयाह-तच्चेति । सत्यं विशेषमात्रं भिखमिच्छामः; किंतु न तत्सत्यम् अपि तु काल्पनिकम् ; तच्चावस्तुत्वान्न दूतमावहतीति भावः । ननु सत्यमेव तत् किं न स्यादित्याशङ्कयाह-वस्त्विति । वस्तुवृच्या सतस्तस्य विशेषमात्रस्यायोगा दषठमानत्वादित्यर्थः । तत्र हेतुमाह-तच्चेति । तद्वस्तवम् आभतः त्वम्; वस्तुतो विशेषाणां भिन्नत्वाभिनवयोरसंभवादित्यर्थः । ते चेद्वस्तुनो न भिन्नाः, ततो वस्त्वेव परम्; न ते पृथकू सन्ति । अय भिन्नाः, न तर्हि वस्तुनः, असंबन्धात् । न हि भिन्नयोस्तादात्म्यमनृदंदैमनयोरव । नापि समवायः, सोऽपि हि समवायिभ्यां भिन्नोऽभिन्नो वा स्यात्; यद्य भिन्नः, न प्यगस्ति ; भिन्नश्र्चेत्, न तयोः स्यात् , असंबन्धात्; तस्यापि ताभ्यां समवायान्तरकल्पनं चानवखा । भिन्नोऽपि समवायस्तायां सत एव तंबन्धश्चेत् तावेव तथा स्ताम् किं तेन ? असंबन्धो हि संबन्धमर्षे क्षते, न संबन्धःप्रदीप इव प्रदीपान्तरमिति चेन; समवायेनोरसौ संबन्धो नात्मनः ; तेनात्मनः समवायिभ्यां संबन्धाय समवायान्तरापेक्षा । युक्तेति युनानवस्था । प्रदीपोपकृतं चक्षुरितरवत्प्रदीपमप्युपलम्भयतीति युका तत्र प्रदीपान्तरानपेक्षेति । किंच . संबन्धश्चेत्संबन्धान्तरं नापेक्षते, 104