पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1B! बससिदुिव्याख्या एवं बौद्धमतमुपन्यस्यातिव्याप्यव्याप्तिभ्यां दूषयति –अत्रोच्यत इति । एकस्य विधानमवन्यस्य गाच राऽन्यस्य प्रतोषधो न भवांतें । कुत इत्याह—मा स्म भूदविशेषेणेति । यद्येकविधेरेव ततोऽन्यस्य प्रातिषेघः, ततो दृश्यादृश्ययोरविशेषेण प्रतिषेधः स्यात्; स मा भूदित्यर्थः । स्मेति पादपूरणार्थम् । एवमतिव्याप्तिदोषमुक्वा अव्याप्तिदोषमाह—मा नेति । एकवुद्धिसेविनामेकबुद्धिगोचराणां चित्रे नीलपीतदीनां मिथो भिन्ननां प्रत्येकमेकबुद्धभावान्मा न भूदन्योन्यव्यवच्छेद इत्यर्थः । श्लोकार्थं विवृणोति--नैकेति । कुत इत्याह--तत्प्रतिनियमो हीति । तस्य नीलादे- नीलादिबुद्धावेष प्रतिनियमो यः , ततो नीलादेरन्यस्य पीतादेस्तत्रासंसगs. ननुप्रवेशः । तथा सति चासंसर्गात् पीतादिव्यवच्छेदेऽभ्युपगम्यमाने तस्यासंसर्गस्य दृश्यादृश्ययोरुपलब्धियोग्यानुपलब्धियोग्थयोरविशेषात् तयो- रुभयोरपि व्यवच्छेदः स्यात्; न च । सोऽस्तीति भावः । अत्रेदानीष्टि एव दृश्यादृश्ययोर्यवच्छेदः ; तेन नेयमनिष्टापत्तिः; अनिष्टापत्तिश्च दोष । इति मन्यमनस्तस्य मतमाशङ्कयति--अथेति । उभयोर्यवच्छेद इत्यनु वर्तते । एतदुपपादयति--तथा हीति । तथा हि नीलदर्शनं नीलंकाकारतया नीलस्मकमेवेदम्’ इति नियच्छत् यावन्तो भावा अस्य नीलस्यानास्मानोs. स्वरूपभूता दृश्याश्चादृश्याश्च तान् सर्वानविशेषेणैवापाकरोति व्यवच्छिनती त्यर्थः। एतदेव द्रढयति- तथा चेति। दृश्याः पीतादथोऽदृश्याः परमाण्वाः दयो यावन्तो नीलादन्ये, ते सर्वेऽस्य नीलस्यानात्मानो भवेयुःएकस्या नेकामविरोधात् । तेन तान् सर्वानेवातदात्मनस्तदात्मनियमात् दर्शनमपा- करोतीति भावः । यद्यन्येऽन्यस्यात्मानो न भवेयुः कीदृशास्तर्हि भवेयुः रित्यपेक्षायामाह--तदेशेति ; तस्य देशकालौ येषां ते तथोक्ताः ; अन्ये अन्यस्य देशकाला भवन्ति, न तु तदात्मान इत्यर्थः । अत्र दृष्टान्तमाह रूपविवदिति । यथा रूपेण सहैकदेशकाला रसादयः, तद्वदित्यर्थः । अत्र हेतुमाह- अविरोधादिति । रूपस्य हि रसात्मकत्वं विरुध्यते, न त्वेक देशकालत्वमित्यर्थः । यदि दृश्यादृश्यवविशेषेण दर्शनमपाकरोति, किमर्षे