पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्ककाण्डः 11B अतः ‘सत्यां वा प्रमाणमेत्र न स्यात्' इति यदुक्तं तदयुक्तमित्याशङ्कच तदुपपादयति-शब्दे त्विति । तुशब्दः प्रत्यक्षादिभ्यो विशेषमाह । संभावितदोषेऽपि यावत शब्दे नोभयाविधं प्रामाण्यम्, किमुत निश्रिसदने इति संभावितग्रहणम् । ननु दोषवति शब्दे तवावेदनलक्षणं प्रामाण्यं मा भवत् , व्यावहारिकं तु प्रत्यक्षादिवत् किमिति न भवतीत्याशङ्कयाह अदृष्टार्थत्वादिति । अदृष्टोऽयं विषयो यस्येति विग्रहः । प्रपदिषु व्यवहारविपर्ययादर्शनात् यावहारिकं प्रामाण्यं युक्तम् ; आम्नावल त्वदृष्टार्थत्वात् न तव्यवहाराविपर्ययज्ञानमस्ति ; अतो न तस्स बाकि मपि प्रामाण्यमित्यर्थः । इतश्च सदोषस्य शब्दस्य न व्यवहाराविसंवादलक्षणं प्रामाण्यमित्याह-दोषेभ्य इति । ज्ञानकारणदोषेभ्यो व्यवहारविसंवादि ज्ञानमन्यत्र रजतभ्रमादिषु दृष्टम् ; अतश्च शब्देऽपि चेत् दोषाः स्युः, तेऽपि व्यवहारविसंवादिज्ञानहेतवः दोषत्वात् तिमिरादिवदिति सामान्यतो इष्टेन व्यवहारविसंवादिज्ञानहेतवः कल्प्येरन् ; ततश्च कुतो व्यवहारावि- संवादलक्षणं प्रामाण्यमित्यर्थः । नन्वेवं तर्हि प्रत्यक्षादिदोषा अपि धर्मिणो व्यवहारविसंवादिज्ञानहेतवः दोषत्वात् । इन्द्रियादिदोषवदिति तेऽपि व्यवहार विसंवादिज्ञानहेतवः कल्प्येरन् , ततश्च प्रत्यक्षादीनामपि दोषववे व्यवहार- विसंवादलक्षणं प्रामाण्यं न स्यात् , विरोधादित्याशङ्कयाह-प्रत्यक्षादीनां त्विति । तुशब्दः शब्दाद्विशेषमाह ; प्रत्यक्षादीनां तु व्यवहारे संवादो दृश्यते ; अतः प्रत्यक्षाविरोधात् नस्यादनुमानात् तेषु व्यवहारविसंवादिज्ञान हेतुदोषः शक्यते कल्पयितुम् । एवं हि स करप्येत यदि तेषु व्यवहारे विसंवादः स्यात् , स तु नास्तीत्युक्तम् । अतः सत्यपि दोषे प्रत्यक्षादीनां व्यावहारिकं प्रामाण्यं न विरुध्यते इति भावः । यदि प्रत्यक्षादिषु व्यव हारासंवादहेतुदोषो न कल्प्यते, कीदृशस्तर्ह, कुतश्च स तादृशः कल्प्यते इत्यपेक्षायाम् , यादृशोऽसौ यतः स तादृशः कर्प्यते तदुभयमाह--तत्वदर्श नस्य स्विति । एकमेवाद्वितीयम् ” इत्यादिवेदान्ताजायमानस्याद्वैततत्त्व ज्ञानस्य प्रत्यक्षादिप्रमेयदैतप्रतिपक्षत्रात् तद्वाधकत्वात् प्रत्यक्षादिप्रमेयकृत यत तखं पारमार्थिकं तत्प्रतिघातमात्रहेतुरेवानादिरविद्यानुबन्धः करुप्यते, न