पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

78 ब्रह्मसिद्धिव्याख्या मस्तीत्याह-नं चेति । साङ्गहण्या ग्रामझामेटेरदृष्टार्थाया दृष्टार्थायाश्चेश्वर सेवाया एकग्रामकायपायत्वेऽपि सति न कश्चिद्विरोध, फलभूमाथिन उभयत्र साम्रहणं प्रवृत्तिसंभवादिति भावः । विरुन्धुपादपि सेवाम् , यदि तद्विधिशास्त्रमन्यनिवृत्ती प्रमाणं भवेत् ; 'साङ्गहणी कार्या’ इत्येतावति तु तस्प्रमणम्, नान्यनिवृत्तों ; अत न तयोर्विरोध इत्याह--एतावतीति । तत्रैवमविरोधे सति युगपत् क्रमेण वा फलभूममार्थिनः फलहुत्वार्थिनः सेवा साङ्गहण्यावनुतिष्ठतः को विरोध इत्याह--तत्रेति । ततश्च यथा तत्र तुल्यकार्यत्वेऽप्यविरोधः, तथेह नैयोगिकरागाक्षिप्तप्रवृयोरपि तुल्यकार्यस्वेs. प्यविरोधान्न मिथो बध्यबाधकभाव इति भावः । किं च नैयोगिकप्रवृ तिभ्यो रागाद्याक्षिप्तप्रवृत्तिनिरोधेऽभ्युपगम्यमाने नियोगनिष्ठा अपि प्रवृत्तयो निरुध्येरन्; अतश्च इष्टत्रिपातकालीयं पक्ष इत्यभिप्रायेणाह--अपि चेति । अत्र हेतुमाह-अनार्जितधनस्येति । न उपजितं धनाख्यं साधनं येन तस्यानार्जितधनस्य, अत एव यागादिसाधनपधादिद्रव्येण विंकलस्य हीनस्य पुंसीऽशक्तत्वेनानधिकारात् तासां नियोगनिष्टप्रवृत्तीनां द्रव्यसाध्या नमसंभवत् अत्र१यं धनाजने कार्यम्; तच्च रागमयुक्तम् , न तु क्रतु- प्रयुक्तमिति कर्मकाण्डे तिवम्; तत्र मैयोगिकप्रवृत्तानां रागाक्षिप्तप्रवृत्ति निरोधकवे धनार्जनमपि निरुध्येत ; अनश्वासधनस्य नैयोगकप्रवृच्यसंभवात ता अपि विरुध्येरन्निति भावः । दूषणान्तरायोपक्रमते--अपि चेति । दृष्टार्थायाः स्त्रीसंभोगादिप्रवृत्ते । रदृष्टार्थायाश्च ज्योतिष्टोमादिप्रवृत्तेस्सुल्ये सुखोपायत्वे गत्युक्तत्वं न कश्चिद्विशेषः ; उभे अपि सुखरागप्रयुक्ते इत्यर्थः । तुल्यत्वमेव दर्शयति- तथा हीति । इतिशब्दः स्वरूपनिर्देशार्थः । स्वर्गकामशब्देन " तय लिप्सार्थलक्षणा ” इiत न्यायेन स्वर्गे रगतः प्राप्तां प्रवृत्तमनूद्य तत्र ज्योतिष्टोमादिसधनविशेष विधीयत इत्यर्थः । यदि नम दृष्टादृष्टार्थ प्रवृत्तीनां रागप्रयुक्तत्वं तुल्यम्, तथापि किमित्यत आह--तथा चेति । तथा तुल्यं रागत्रयुक्तव राति च रागक्षिप्तमुखसधनादिप्रपञ्चभिनिवेशे तुल्ये को विशेषःयेन नैयोगिकी आत्मज्ञानं प्रत्यनुगुणा भवते, अपरा