पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रसफाण्डः 65 तम्’ इति पार्श्वस्थोऽवधारयति । तदेवं प्रागुक्तप्रकारेणाप्तऋतवाक्यप्रयोग- पुत्रजन्मगोचरपितृप्रत्ययाभ्यामस्मिन् पुत्रजन्माख्यार्थे वाक्यस्य प्रतिपादनसा- मथ्यै पार्श्वस्थः प्रतिपद्यते । ततश्चास्ति सिदार्थादपि वाक्यात व्युपतिः, अतो न कार्यवाक्यादेव व्युत्पत्तिः; अतो न तलेन कार्येकनिष्ठता सर्व शब्दानामिति सिध्डेऽप्यर्थे न प्रामाण्यं व्याहन्यते । यद्यपि पदानि व्युपसि मपेक्षन्ते, न वाक्यम्, अभिनवविरचितादपि वाक्यदर्यप्रतीतेः; तथा वाक्यप्रयोगद्वयुग्पत्तिः, न पदमात्रप्रयोगादिति पदमेवामित्रेत्य तत्र वाक्यस्य सामथ्र्यं प्रतिपद्यत इत्युक्तम् । अधुनाभ्युपेत्योच्यते--भवतु वा सर्ववचसां प्रवर्तकता, तत एव वाच्य- वाचकसम्बन्धावगमःतथापि व्युत्पतिवाक्या एव प्रवर्तके विधायकपदमपो हृत्य तब्द्यतिरिक्तानां पदानां छ तास्पर्यम्? शक्तिः ॐि पदार्थमात्रे ? किं. वा कार्यसंसर्गे ? किं वा कार्योणाकार्येण चाकाङ्क्षतयोग्यसन्निहितेन पदा थोन्तरमात्रेण संसर्गे ? इतदिं विचार्यम् । तत्र तेषु पक्षेषु मध्ये पदानां खार्थमात्रपरत्वेऽङ्गीक्रियमाणेऽयःशलाकाकल्पाः सर्वेऽपि ( पदार्थाः परस्पर मसंस्पृष्टाः स्युः; ततश्च संसर्गरूपवाक्यार्थप्रत्ययाभावः स्यात् ; । अस्ति चासौ। किं च पदार्थमात्रप्रतिपत्तेर्निष्प्रयोजनत्वात् पदप्रयोगवैययं च स्यात् । यस्मादेतद्दोषद्वयमास्सन् पक्षे भवति तस्मादेतद्दषद्वयपरिहारायान्योन्याका क्षितयोग्यसन्निहितेन कार्येणाकार्येण बार्थमात्रेण व्यतिषङ्गः अन्योन्यसंसर्गः कल्पनयः ; तावता चान्यार्थमात्रव्यांतेषङ्गुण पदप्रयोगवाक्यार्थप्रत्यययोरुपः पत्तौ सत्यां प्रयोक्तृप्रतिपन्नीराकाङ्यान्न कार्यरूपपदार्थविशेषव्यतिषङ्गं प्रमाण मस्ति ; स्वार्थमात्रपर्यवसाने हि पदानां प्रयोगप्रत्ययावनुपपद्यमानौ तदति क्रम्य पदार्थमात्रसंसर्गपर्यन्ततात्पर्यशतिं गमयतः ; तौ च तावतैवोपपन्नौ न कात्मकार्थान्तरसंसर्गपर्यन्ततां गमयितुमलमिति भावः । इतश्रयो हि। कार्यात्मकार्थान्तरव्यतिषङ्गं कल्पयति, कार्यस्याप्यर्थान्तरत्वात् कर्पयत्यसा वर्थान्तरव्यतिषङ्गम; तेनोभयवादिसिद्धत्वादर्थान्तरमात्रव्यतिषङ्ग एवाश्रयि तत्र्यःन कार्यव्यतिषङ्गः, विमत्यधिकवादिति. भावः । किं च कार्यसं सग व्यभिनरति, कार्यस्याकार्येण संसर्गात् ; अर्थान्तरमात्रसंसर्गस्त्वच्या