पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
59
तर्ककाण्डः

इत्युच्यते । नैतत्सारम् न चेदभिन्नरूपप्रतिपत्तिः, निर्विषयत्वमेव प्रमाणस्या- पचेत; यत न व्यवच्छेदमन्तरेण भेदप्रतीतिः ; 'न व्यवच्छेदः केवलःन विधिसहितः, न विधेः पश्चात् प्रमाणस्य व्यापारः; न विषि रेव व्यवच्छेद इति वर्णितम; तत्र यद्येकमपि न गम्यते निर्विषयतैव स्यात् । अप्रत्यभिज्ञानं च यदि गोवैलक्षण्यादुच्येत सत्यपि ‘सन्मात्ररूपा नुगमे, गवान्तरेऽपि तन्न स्यात्, देवदत्तवैलक्षण्यात्; न हि यादृशो देव दत्तस्य पुनर्दर्शने ‘एकत्वप्रत्ययस्तादृशो गवान्तरे । अथास्ति तत्र तावत् पूर्वापरानुसंधानम् न तु सतः सदन्तरे ; किं च भोः! अनुसन्धानादे कृत्वम्, नाभिन्नरूपसंविदः; नेदानीमभिन्नदेशकालोऽर्थ एकः स्यात्; देश- कालभेदे हि ’सोऽयम्’ इति पूर्वापरानुसंधानम् । गोमण्डले च महिष मण्डलविलक्षणे देश भेदेऽप्यभिन्नरूपानुगतात् प्रथमादेव निर्विकल्पकात् प्रत्ययादेकार्थप्रतिपत्तिरिष्यते ; न च तत्र कालभेदाभावात् ‘सोऽयम्’ इत्य ‘वमर्शः; यथोक्तम् -

निर्विकल्पकबोईधेऽपि द्वयात्मकस्यापि वस्तुनः ।
ग्रहणं लक्षणाख्येयं ज्ञात्रा शुद्धं तु गृह्यते ॥

न च यथा मणिकं . दृष्टवतो मणिकान्तरेऽनुसन्धिः तथा शराब इष्ट्; तत्र मृज्जातिरप्यपह्येत । अथास्ति तत्रापि ; न तु यथा मणिकान्तरे सामान्यरूपाणां भूयस्त्वादुत्कटः, अल्पसामान्यानुगमात् ; सदन्तरेऽपि तथैव स्यात् । विस्तरेण चैतदुपरिष्टादभिधास्यत इत्यलमतिप्रसङ्गन ।

भेदाभेदावभाते द्वे विज्ञाने चेत् परीक्ष्यताम् ॥ ११३ ॥

यदि मतम्–विद्यते तावदनुवृत्तव्यावृत्ताभे वे विज्ञाने ; न हि तयो रभावेऽनुवृत्तव्यावृत्तव्यवहारसंभवः; न च विज्ञानरूपादन्योऽर्थव्यवस्थाहेतुः; तस्याहेतुत्वेऽभेदोऽपि न । नैतत् सारम्; न हि विज्ञानमित्ये- सिध्येत् गर्यतस्वं व्यवस्थापयति ; तदपि हि परीक्ष्यम् युक्त्या विरुध्यते नेति,

प्रमाणोत्थं नेति ; न खल्वलातचक्रादिज्ञानेभ्योऽथैतवव्यवस्था । स्यादेतत्;


1 न च--C

2 उच्यतै A

3 सन्मात्रावगम-- A

4 तत्त्व-A

5 A Quits इप

6 अवमशऽपि -e

7 Sl6aVartika page 11

8 बोधेन--A

9 हि--C

10 अनुश्रुतिव्यावृत्याभ-A

11 सदावः--A