पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
28
ब्रह्मसिद्धिः

अन्ये तु पुरुषसंस्कारतयास्मज्ञानाधिकारसंस्पर्श कर्मणां वर्णयन्ति 'महायनैश्च यज्ञश्च ब्राझीयं क्रियते तनुः", "°यस्यैते चत्वारिंशत् संस्कारा अष्टावात्मगुणाः इति ‘च ।

अन्ये तु--एतदेव विपरीतं वर्णयन्ति, आत्मज्ञानमेव कर्तृसंस्कारत या कर्माधिकारानुप्रवेशीति ।

अन्ये तु परस्परविरोधिनोः कर्मात्मज्ञानयोः द्वैताद्वैतविषयवेनासंबन्ध एवेति मन्यन्ते ।

तत्र न तावत् प्रथमः कल्पः। न हि 'कर्मादिविधयः स्ववाक्यसमधि- गतस्वर्गादिईकार्याः कार्यान्तरमपेक्षन्ते ; नाप्यात्मज्ञानाविधिर्यथोदितबक्षचर्या दिसाधननिराकाङ्क्षः कर्मविधीनपेक्षते; तत्र कुन एकाधिकारत्वम् ? अथ अनवगतकार्या 'एव कर्मादिविधयःस्वर्गादीनां गुणत्वेन संबन्धादितेि ; स्वर्गकामाधिकरणमस्मै व्याचक्षीत । अपि च सर्वविधिनिषेधानां नामरूप प्रविलयकार्यापवर्गित्वे जन्तूनामभ्युदयविनिपाता अकर्मनिमित्ता आकस्मिकः स्युः , तथापवर्गोऽपि स्यादिति वैयर्थे शास्त्रस्यापि । अंथ स्वर्गादिकार्य- द्वारेण कर्मविधीनां ज्ञानाधिकारानुप्रवेशिता मार्गग्रामगमनोपदेशानामिवाभि मतनगरगमनोपदेशानुप्रवेशित्वम्; तदसत्; युक्तं मार्गग्रामप्राप्तेरनभिमतत्वा वभिमतदेशभाष्युपदेशानुप्रवेशित्वम् , न हि मार्गग्राभोपदेशेषु पुरुषार्थप्राप्तिः ; अतः साकाङ्क्षत्वाद्यत्र पुरुषार्थप्राप्तिः, तमनुप्रविशन्ति ; न त्वेवं कर्मविचिषु पुरुषार्थस्यालाभःस्वर्गादीनां पुरुषेणार्थमानवत् / तत्र च नैराकाङ्क्ष्ये कथम- न्यानुप्रवेशः ? अथ मतम्-यदोपच्छन्द्य नीयत उत्तरोत्तरग्राम' "गुणोपदर्शनेना- भिप्रेतं देशम् , तदा पूर्वग्रामोपदेशः प्राप्ताभिमतकार्या उपदेशान्तरानुभवेशिनः जेति; युक्ॐ तत्रापि प्रमाणान्तरेण वक्तुरभिप्रायाधिगमात् ६ प्रमाणान्तरेण हि तत्रेदमधिगतम्--"एतद्देशप्राप्तविदमस्य समीहितं वतुः संपद्यते, तस्मादिद-

मस्य विवक्षितमिति ; न तु शब्दवृत्तमात्रानुसारेण । इतवैतदेवम्


1 Manu. -28.

2 GatDha,8-22,

3 A and Bomit च.

4 कविधयः-c.

5 वैढूA

6 निरपेक्षःA

7 A and 0 omia एव

8 कर्मविधयः-A and B

9 अभिसंबन्धादिति-B.

10 B and g omit अपि

11

12 साकाङ्क्षतान्यन्न-f.

13 गुणप्रदर्शनेनाभप्रेतं A and O.

14 तद्देश--A.

15 प्रतिdh.