पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
22
ब्रह्मसिद्धिः

वा स्वभावेन वा पुनर्बध्नीयादीकिक इवेश्वरः । अथैष कर्मापेक्षः, न 'कूर्मस्वस्य स्वातन्त्र्यम् ; तथापि कर्मणामानन्त्याद्विपाककालनियमामावाच कल्पशतातिक्रमेऽपि प्राप्तविपाककालेभ्यः कर्मभ्यः पुनर्बन्धः संभाव्यते, यतो नैकभविकः कर्माशयः ; न यस्य प्रायणमेवाभिव्यञ्जकम् , अपि तु देशकलादयोऽपि; तथा हि--एकस्मिन्नपि देहे क्रमेण कर्मफलभोगो दृश्यते, विरुद्धजातिभोगनिमित्तानां च कर्मणां युगपदावापगमनानुपपत्तेः; गर्भमृत्यूनां चाकर्मणां विमुक्तिप्रसङ्गः । तत्रोच्यते-अभयामिति । पराहीयं 'क्षेमप्राप्तिः भूयते । 'नास्यां पुनः संसारभयमस्ति ; न तावत् कर्मनिमित्तः पुनः संसारः बिषया प्रायश्चित्तेनेवाछुतभोगानामप्यनन्तानामपि क्रमेण प्रक्षयात् ! उक्तं । हिं—« °ज्ञानाभिः सर्वकर्माणि भस्मसात्कुरुते तथा ” इति ; तथा + % 'क्षीयन्ते चास्य कर्माणि ” इति । अथवा विद्ययाविद्यानिठौ प्रविलीन एव कर्तृकर्मफलविभागः तस्य कुतः संभवः ? नाप्यविद्यानिमित्तः , तत्प्रवृत्तिहेतोरभावात्; अनादिर्घविधा, अनादित्वादेव न हेतुमपेक्षते ; प्रागभावे हि हेतुध्यापारः ; असति प्रागभावे कदा हेतुव्यप्रियेत ; न हि सतो हेतछत्यमस्ति ; विद्यया 'च्छिन्ना प्रागसती प्रवर्तमाना नाकस्मात् प्रवर्ति तुमर्हति । सुषुठे तु विक्षेपमात्रं निऋचम् , तत्संस्कारोऽग्रहणं च नैव निश्चक्रे ;"अन्यथा न तुरीयाग्निचेत ; विक्षेपमात्राभावातु बंधकप्राप्त्यभिधानम् । तस्मात् सुष्ठूक्तम् अभ्यमिति ।

केन पुनः प्रमाणेनास्यार्थस्य समधिगमः । न "तावत् प्रत्यक्षेण, तवैतविपरीतंभेदविषयत्वात्नाप्यनुमानेनतत्पूर्वकत्वात् ; नोपमानेन,

सादृश्यंविषग्वाल् , तस्य च भेदाधिष्ठानत्वात् ; अर्थापजिंस्तु विपर्यये, न भेदमन्तरेण प्रशिबयवहार उपपद्यते यतः ; अभेदोऽपि हि प्रमात्रादि

विभागहते "दुरवगमः ; अभावोऽपि न भावरूपतयावगमायालम्; नापि


1 कर्मण्यस्व.A.

2 A and B oadit वि.

3 अंत २B,

4 मावातिःA 5 न तरु A

6

7 Annd- 2-2-8.

8. व्यप्रियते--B and C.

9 विच्छिआ-A; छि-B.

10 प्रवृत्रिम C

11 भन्यथा तु B

12 A omis तावत.

13 नानुमानेन-A.

14 दुरधिगमः-B. {{Multicol-end