पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्वप्रकाशिकायां अधिकं तु भेदनिर्देशात् ॥ २२ ॥ तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । यतः शारीरादधिकं सर्वज्ञं सर्वशक्ति ब्रह्म जगदुपादानं राष्ट्र चेति मस्ततो न हिताकरणादिदोषप्रसक्तिः, कुतः, मेदनिर्दे- शाद् 'आत्मा वारे द्रष्टव्य' (बृ. २. ४. ५) इत्यादिना कल्पितभेदस्य व्यपदे - शात् । न हि ब्रह्मगो नित्यमुक्तस्य हितमहितं वा किञ्चित् समस्ति येन हिताकर णादिदोषः प्रसज्येत । अतः कल्पितभेदमादायैव सर्वस्यासाङ्कर्योपपत्तेरिति तात्प- र्यम् ॥ २२ ॥ नन्वेकरूपब्रह्मणो जगत्कारणत्वे कार्यवैचित्र्यं न स्यादिति दोषं दृष्टान्तेन परिहरति- ५२ अश्मादिवञ्च तद्नुपपत्तिः ॥ २३ ॥ एकपृथिवीजन्यानां यथाश्मनां वज्रवैदूर्यादिभेदेन वैचित्र्यं, तथा ब्रह्मका- र्याणां स्वरूपवैचित्र्यं युज्यते । अतस्तदनुपपत्तिः । तस्माज्जीवामिन्नब्रह्मवादिसमन्व- यो न विरुध्यत इति सिद्धम् ॥ २३ ॥

  • ८ उपसंहाराधिकरणम् *

पूर्वमौपाधिकजीवभेदाद्धिताकरणादिदोषो नास्तीत्युक्तम् । सम्प्रत्युपाधितोऽपि ब्रह्मणो विभक्तं कारणादिकं नास्ति ब्रह्मनानात्वाभावादिति प्रत्युदाहरणसङ्गत्येद- माह -- उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥ फलं तु पूर्ववत् । न ब्रह्मोपादानं कर्तृ वा असहायत्वात् सम्मतवद् इति न्यायेनासहायाद् ब्रह्मणो जगत्सर्गे ब्रुवन् समन्वयो विरुध्यते न वेति सन्देह उपसं- हारदर्शनाल्लोके कुलालस्य कर्तुर्दण्डचक्रायुपसंहारदर्शनान्मृदो वोपादानस्य स्वभि नकुलालादिसहायदर्शनात् तदुभयविलक्षणस्य ब्रह्मणो न जगत्कर्तृत्वमुपादानत्वं वा सम्भवति । अतः समन्वयो विरुध्यत इति चेदिति पूर्वः पक्षः । सिद्धान्तस्तु क्षीरवद्धि । हिशब्दो हेत्वर्थः । यथा लोके क्षीरं बाह्यसाधनान्यनपेक्ष्य दध्याका- रेण परिणमते तद्वद् ब्रह्मापि । (श्रुतिरपि) ब्रह्मणोऽसहायस्य कार्यकारित्वं दर्शयति 'न तस्य कार्य करणं च विद्यते' (श्वे. ६-८) इति ॥ २४ ॥ ननु चेतनत्वे सति ससहायत्वं हेतुः । अतो न क्षीरे व्यभिचार इत्याशङ्कय चेतनदृष्टान्तेन तस्य व्यभिचारमाह -