पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तंयन्ति' (छा. १. ९. १) इत्याकाशशब्देन साक्षाद् ब्रह्म गृहीत्वा जगदुत्पत्तिप्रलययोरा- नानाद् ब्रह्म निमित्तप्रकृती इत्यर्थः ॥ २५ ॥ नन्वेकस्य कृतिमत्त्वं कृतिविषयत्वं च विरुद्धमित्याशङ्कयाह- ४४ आत्मकृतेः परिणामात् ॥ २६ ॥ 'तदात्मानं स्वयमकुरुत' (तै. २. ७. १) इति द्वितीयया कृतिविषयया कृ- तिविषयत्वं, स्वयमकुरुतेत्यनेन कृतिमत्त्वं चाम्नायते । तथा च ब्रह्मण उपादानत्वं निमित्तत्वं चाविरुद्धं, कुतः, आत्मकृतेः आत्मसम्बन्धिनी कृतिरात्मकृतिस्ततो हेतोः । नन्वात्मनः कर्तृत्वेन पूर्वसिद्धस्य कथं कृतिकर्मत्वम् अत आह परिणामात् परिणा- मो विवर्त्तः । सिद्धस्यापि विवर्त्तात्मना साध्यत्वात् कर्मत्वोपपत्तिरित्यर्थः ॥ २६ ॥ किश्च- योनिश्च हि गीयते ॥ २७ ॥ 'यद् भूतयोनिं परिपश्यन्ति' (मुण्ड. १.१.६) इति प्रकृतिवाचकयो- निशब्देनात्मा हि यस्माद् गीयते तस्मात् प्रकृतिर्ब्रह्मेति । ततो ब्रह्मणः प्रकृतित्वं कर्तृत्वं च सिद्धम् ॥ २७ ॥

  • ८ सर्वव्याख्यानाधिकरणम्

इत्थमभिहितेन न्यायेन ‘ईक्षतेर्नाशब्दम्' (ब्र. सू. १-१-५) इत्यादिना- शब्दत्वादिहेतुभिः प्रधानकारणवादो निराकृतः । न तथेहाणुस्वभावासत्कारणवादाः, तेषामपि कारणत्वबोधकशब्दानां श्रुतत्वादिति प्रत्युदाहरणसङ्गत्येदमाह- एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥ अत्र पूर्वपक्षे ब्रह्मण्येव वेदान्तसमन्वयासिद्धिः सिद्धान्ते तत्सिद्धिरिति फ लभेदः । अत्र वेदान्ता विषयाः । तत्र किं ब्रह्मण इव परमाणुशून्यादीनामपि क्व- चिज्जगत्कारणत्वं श्रुतमस्ति अथवा सर्वत्र ब्रह्मण एव सर्वकारणत्वं प्रतिनियतमिति संशये 'अपव्य इवेमा धानाः' (छा. ६. १२. १) 'असदेवेदमग्र आसीत् ' (छा. ३. १९. १) 'स्वभावमेके' (वे. ६. १) इत्यादिष्वण्वादीनामपि कार- •णत्वं श्रुतमिति पूर्वः पक्षः । सिद्धान्तस्त्वेतेन प्रधाननिराकरणे ये हेतवोऽसच्छब्द-