पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां स्मृतेः 'अथास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्' 'तस्माच्छूद्रस- मीपे नाध्येतव्यम्' 'न शूद्राय मतिं दद्याद्' 'द्विजातीनामध्ययनामिज्या दानम् ' इत्यादिस्मृतितो वेदश्रवणस्य तदध्ययनस्य तदर्थयोस्तत्प्रयोजनयोरर्थज्ञानानुष्ठानयोश्च प्रतिषेधात् । अतः कथञ्चिदपि न शुद्रस्य ब्रह्मविद्यायां विधिपूर्वकाधिकार इति सिद्धम् ॥ ३८ ॥ ३४

  • १० कम्पनाधिकरणम्

समाप्तः प्रासङ्गिकोऽधिकारविचार: । अधुना प्रकृतवाक्यार्थविचारं प्रवर्त • यिष्यामः । प्रासङ्गिकत्वान्न व्यवहितेनास्य सङ्गत्यपेक्षा पूर्व 'शब्दादेव प्रमितः ' (ब्र. १. ३. २४) इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मज्ञानायेत्युक्तम् । न तथेह 'यदिद' मिति वाक्ये प्राणानुवादो युक्तः, तस्य स्वरूपतः कल्पितम्य ब्रह्मैक्यायो- गादिति प्रत्युदाहरणसङ्गत्येदमाह कम्पनात् ॥ ३९ ॥ - अत्र पूर्वपक्षे प्राणोपास्तिः सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः । कठ- वल्लीषु (२. ६. २) श्रूयते– 'यदिदं किञ्च जगत् सबै प्राण एजति निस्मृतम्' इ- त्यादि । तत्र एन कम्पन इति धातोः कम्पनार्थत्वात् सर्वजगत्कम्पनहेतुः प्राणः प्रतीयते । स किं वायुविकार उत परमात्मेति सन्देहे वायुविकार इति पूर्वः पक्षः । सिद्धान्तस्तु 'प्राणस्य प्राणम्' (वृ. ४. ४. १८) इति प्राणशब्दस्य परमात्मनि प्रसिद्धेरिह प्राणशब्दवाच्यः परमात्मैव, कुतः, कम्पनात् सर्वस्य सवायुकस्य जगतो जीवनादिचेष्टाहेतुत्वाद् | हेतुत्वं च 'न प्राणेन नापानेन' (का. २.५.५) इत्यादिश्रुतिप्रसिद्धम् ॥ ३९ ॥

  • ११ ज्योतिर्दर्शनाधिकरणम् *

पूर्वे सर्वशब्दश्रुतिसङ्कोचानुपपत्त्या प्रकरणात् प्राणशब्दं ब्रह्मेत्युक्तम् । न तथेह सम्प्रसादवाक्ये प्रकरणानुग्राहकं किञ्चिदस्ति, येन प्रकरणाज्ज्योतिश्शब्दं ब्रह्म स्यादिति प्रत्युदाहरणसङ्गत्येदमाह - ज्योतिदर्शनात् ॥ ४० ॥ - अत्र पूर्वपक्ष आदित्योपास्त्या क्रममुक्तिः सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलभेदः । छान्दोग्ये (८. १२.३) प्रजापतिविद्यायां श्रूयते - ‘य एष सम्प्रसा- दोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य' इत्यादि । तत्र किं ज्योतिश्शब्दित मादित्यादितेज उत ब्रह्मेति विशय आदित्यादितेज इति पूर्वः पक्षः । सिद्धान्तस्तु