पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्याये तृतीयः पादः । २६-२) इत्यादिश्रुतौ दर्शनात् । यद्वानेकत्र कर्मण्येक(स्य)प्रतिपत्तिरङ्गभावस्तस्य लोके दर्शनाद् यथा बहुभिर्नमस्कुर्वाणैर्युगपदेको ब्राह्मणो नमस्क्रियमाणो दृश्यते तद्वदित्यर्थः ॥ २७ ॥ ननु मास्तु कर्मणि विरोध:, शब्दे स्यादित्याशङ्कयाह- - ३१ शब्दस्यार्थेन शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥ शब्दे वेदवाक्ये अनित्यविग्रहवद्देवादेर्नित्यवेदार्थत्वाङ्गीकारे सह नित्यसम्बन्धाभावेन नित्यानित्यसंयोगविरोध इति चेन्न अतः प्रभवात् । अत एव हि वैदिकाच्छब्दाद् देवादिजगतः प्रभवादुत्पत्तेः । कथं तत्प्रभवत्वं देवादेः, प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्याम् । 'एत इति वै प्रजापतिर्देवानसृजत' (ताण्ड्य. ब्रा. १२.१. ४) इत्यादिका श्रुतिः 'वेदशब्देभ्य एवादौ' (मनु. १.२१) इत्यादिका स्मृतिः । ताभ्यां नित्यशब्दप्रभवत्वं देवादेरवगम्यते । एवञ्च देवाद्युत्पत्तावपि तन्निष्ठनित्याकृतेर्वेदार्थत्वात् तत्सम्बन्धो नित्य इत्याविरुद्धम् ॥ २८ ॥ नन्वेवमप्यतः प्रभवादिति देवादेर्वेदप्रभवत्वोक्त्या तदुपपादकवेदस्यापि प्रभवप्रसङ्गादनित्यत्वमाशङ्कयाह - - अत एव च नित्यत्वम् ॥ २९ ॥ अत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वादेव वेदस्य नित्यत्वं प्र. त्येतव्यम् । कर्त्रस्मरणात् सिद्धमेव वेदनित्यत्वमनेन दृढीकृतमिति बोध्यम् ॥ २९ ॥ ननु महाप्रलये आकृतेरप्यानित्यत्वाच्छब्दार्थसम्बन्धस्यानित्यत्वं विरोधस्त- दवस्थ एवेत्याशङ्कयाह- समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ ३० ॥ सुषुप्तिप्र (लय?) बोधयोरिव सृष्टिप्रलययोरावृत्तावपि प्रलये प्रपञ्चस्य संस्कारा- त्मना अविद्यायां विद्यमानत्वेन पूर्वकल्पप्रपञ्चसमाननामरूपत्वादुत्तरकल्पप्रपञ्चस्या. कृतेर्नित्यत्वम् । तथा न शब्दार्थसम्बन्धस्यानित्यत्वविरोधः । कथम् । समाननामरू- पत्वदर्शनात्, स्मृतेश्च, ‘धाता यथापूर्वमकल्पयद्' (ऋ. सं १०-१९०-३) इति श्रुतौ दर्शनाद् 'यथर्त्तुप्वृतालिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु' इति स्मृतेश्च ॥ ३० ॥ इत्थमभिहितं देवानामधिकारमाक्षिपति-