पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां अत्र पूर्वपक्षेऽमेजवस्य वोपास्तिः सिद्धान्ते निर्विशेषब्रह्मधीरिति फल- भेदः । कठवल्लीषु (१-२-२४ ) श्रूयते - 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन' इत्यादि । तत्रौदनोपसेचनसूचितः कश्चिदत्ता प्रतीयते स किमझिरुत जीव उताहो परमात्मेति संशये अग्निजीवाविति पूर्वः पक्षः । सिद्धान्ते तु परमात्मैवात्ता । कुतः, चराचरग्रहणात् चराचरयोस्स्थावरजङ्गमयोरद्यत्वेनास्मिन् वाक्ये ग्रहणात् । न हि परमात्मानं सर्वसंहत्तीरमृतेऽन्यस्य कस्यचित् चराचरात्तृत्वं सम्भवतीत्यर्थः ॥९॥ इतश्च परमात्मैवात्तेत्याह १६ प्रकरणाच्च ॥ १० ॥ ० ‘न जायते म्रियते वा विपश्चिद्' (काठ. १-२-१८) इत्यादिना परमात्मनः प्रकरणात् प्रकृतत्वात् ‘क इत्था वेद यत्र स' इति दुर्विज्ञेयत्वरूपासाधारणलिङ्गाच्चे- त्यर्थः ॥ १० ॥

  • ३ गुहाधिकरणम् *

पूर्वं ब्रह्मक्षत्रपदस्य मृत्युपदसान्निध्यादनित्यवस्तुपरत्ववदिहापि पिबच्छ- ब्दस्य सन्निहितगुहाप्रवेशादिना बुद्धिक्षेत्रज्ञ परत्वमस्त्विति दृष्टान्तसङ्गत्येदमाह - गुहां प्रविष्टावात्मानौ हि तदर्शनात् ॥ ११ ॥ F अत्र पूर्वपक्षे बुद्धिभिन्नजीवज्ञानं, सिद्धान्ते जीवविलक्षणपरमात्मज्ञानमिति फलभेदः । कठवल्लीप्वेव श्रूयते - 'ऋतं पिबन्तौ सुकृतस्य लोके' (काठ. १-३-१) इत्यादि । तत्र किं बुद्धिजीवौ निर्दिष्टावुत जीवपरमात्मानाविति सन्देहे बुद्धिजीवाविति पूर्वः पक्षः । सिद्धान्तस्त्विह गुहां प्रविष्टौ जीवपरमात्मानावेव । कुतः, आत्मानौ हि, यस्मादात्मानौ चेतनौ ऋतं पिबन्ताविति कर्मफलभोग श्रवणेनैकस्यात्मत्वे द्विती- यस्याप्यात्मत्वं न्याय्यम् । तत्र हेतुस्तद्दर्शनात् संख्याश्रवणे च संख्यावतोरेकरू- पत्वस्य लोके दर्शनादित्यर्थः ।। ११ ।। इतश्च जीवपरमात्मानावेव गुहां प्रविष्टावित्याह- विशेषणाच्च ॥ १२ ॥ ‘सोऽध्वनः पारमाप्नोति' (का. १-३-९) 'देवं मत्वा धीरो हर्षशोकौ जहाति' (का. १-२-१२) इति जीवपरमात्मनोरेवास्मिन् प्रकरणे गन्तृगन्तव्यमा- वेन मन्तृमन्तव्यभावेन च विशेषितत्वादित्यर्थः ॥१२॥