पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां ब्रह्मात्मत्वेन 'तत्त्वमसी' त्यादि वाक्यानि । नच तेषां 'मनो ब्रह्म' (छा. ३-१८- १) इत्यादिवद् गौणार्थत्वं, सति मुख्यार्थत्वे गौणार्थत्वायोगात् । नच प्रत्यक्ष- विरोधः । तस्य मिथ्यागोचरत्वेन पारमार्थिकाभेदागोचरत्वादिति भावः ॥ ३ ॥

  • ३ प्रतीकाधिकरणम्

पूर्वं यथा ब्रह्मणा सहाभेदसत्त्वादहङ्ग्रह उक्तः, तद्वत् प्रतीकेष्वपि ब्रह्म- विकारतया जीवाभिन्नब्रह्माभिन्नत्वाज्जीवाभेदसत्त्वेनाहङ्ग्रहः कार्य इति दृष्टान्तस- इत्येदमाह -- न प्रतीके न हि सः ॥ ४ ॥ अत्र पूर्वपक्षे प्रतीकोपास्तीनामहङ्ग्रहोपास्तेर्विशेषासिद्धिः, सिद्धान्ते तत्सि- द्धिरिति फलभेदः । ‘मनो ब्रह्म' (छा. ३-१८-१) इत्यादीनि प्रतीकोपासनानि श्रूयन्ते । तत्र किं मनआदौ प्रतीकेऽहंग्रहः कर्तव्यो न वेति सन्देहे कर्तव्य इति पूर्वः पक्षः। सिद्धान्तस्तु प्रतीकेऽहंग्रहो न कर्तव्यः । कुतः, विकल्पासहत्वात् । तथा हि । किं प्रतीके आत्मत्वानुभवबलादहंग्रहः, उत श्रुतत्वाद्, उताहो स्वाभिन्नब्रह्माभिन्न- त्वात् । न तावदाद्यः । तथानुभवाभावात् । नहि स उपासकः आत्मत्वेन प्रतीक- मनुभवति । न द्वितीयः, अश्रवणात् । नापि तृतीयः, प्रतीकस्य स्वरूपेण ब्रह्माभि- म्नत्वायोगात् । अतः प्रतीकेऽहंग्रहो न कर्तव्य इति सिद्धम् ॥ ४ ॥ ४ ब्रह्मदृष्टयधिकरणम् * पूर्वोक्तप्रतीकोपासनानि विषयीकृत्यान्यत् किञ्चिद्विचार्यत इत्येकविषयत्व- सङ्कत्येदमाह -- ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥ अत्र पूर्वपक्षे निकृष्टे उत्कृष्टबुद्धिः कर्तव्येति लौकिकन्यायानपेक्षा, सिद्धान्ते तदपेक्षेति फलभेदः । अत्र किं ब्रह्मणि प्रतीकदृष्टिः कर्तव्या, उत प्रतीके ब्रह्मह- ष्टिरिति विशये ब्रह्मणः प्राधान्येनोपास्यत्वसिद्धये तस्मिन् प्रतीकदृष्टिः कर्तव्येति पूर्वः पक्षः । सिद्धान्तस्तु प्रतीक एव ब्रह्मदृष्टिः कर्तव्या । कुतः, ब्रह्मण उत्कर्षाद् उत्कृष्टदृष्टौ हि निकृष्टे क्रियमाणायां निकृष्टस्योत्कृष्टता भवति राजदृष्यामात्यस्येव । नचैवं ब्रह्मणः प्राधान्यालाभः, इष्टापत्तेरिति भावः ॥ ५ ॥ सिद्धरूपादित्यादिभ्यः ५. आदित्यादिमत्यधिकरणम् * कर्मरूपोलीथादीनां फलसन्निकर्षोत्कर्षाद् ब्रह्मवद्वि-