पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां भोजने चोपस्थिते अतोऽस्मादेव भोजनद्रव्यात् प्राणाग्निहोत्रं कर्तव्यम्, अनुपस्थिते त्वग्निहोत्रस्य लोप एव । कुतः, तद्वचनात् । 'तद्यद् भक्तं प्रथममाग- च्छेत् तद्धोमीयम्' (छा. ५-१९-१) इति वचनात् । आदरवचनं तु भोजनप्र सक्तिदशायां द्रष्टव्यम् ॥ ४१ ॥

  • २७ तन्निर्धारणाधिकरणम् *

पूर्वमनित्यभोजनाश्रितप्राणाग्निहोत्रस्यानित्यत्वं यथा, तद्वन्नित्यकर्माङ्गाश्रि- तोपासनानां नित्यत्वमिति दृष्टान्तसङ्गत्येदमाह- तन्निर्धारणानियमस्तद्दष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥ ४२ ॥ अत्र पूर्वपक्षे उपासनानां ऋतुषु पर्णतादिवदावश्यकत्वं, सिद्धान्ते गोदोह- नवदनावश्यकत्वमिति फलभेदः । सन्ति कर्माङ्गोद्गीथव्यपाश्रयाणि प्राणायुपास- नानि । किं तेषां नित्यवदनुष्ठानमुत नेति सन्देहे नित्यवदनुष्ठानमिति पूर्वः पक्षः । सिद्धान्तस्तु तेषां कर्माङ्गाश्रितानां निर्धारणानामुपासनानामनियमः नित्यवदनुष्ठा- नाभावः । कुतः, तद्द्दष्टे:, तस्यानियमस्य 'तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद' (छा. १-१-१०) इति श्रुतौ दर्शनात् । उपासनानां पृथक् फलश्रवणादपि न नित्यवदनुष्ठानमित्याह- पृथग्ध्यप्रतिबन्धः फलम् । हि यस्मात् कर्मफलतः पृथगेवाप्रतिबन्धः 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' (छा. १-१-१०) इति वीर्यवत्तरत्वात्मककर्मसमृद्धिरूपः फलमुपलभ्यते । अतो न कर्माङ्गत्वमुपासनानामिति सिद्धम् ॥ ४२ ॥ -

  • २८ प्रदानाधिकरणम् *

पूर्व फलभेदात् कर्मानानां तदाश्रितोपासनानां च नित्यत्वा नित्यत्वलक्षणः प्रयोगभेदोऽभाणि । तर्ह्यत्र वायुप्राप्तिलक्षणफलैक्याद्वायुप्राणयोः स्वरूपाभेदाद् ध्या- नप्रयोगाभेद इति प्रत्युदाहरणसङ्गत्येदमाह-- प्रदानवदेव तदुक्तम् ॥ ४३ ॥ अत्र पूर्वपक्षे विद्यैक्यात् प्रयोगभेदासिद्धिः, सिद्धान्ते तदैक्येऽपि गुणभे- दतस्तत्सिद्धिरिति फलभेदः । बृहदारण्यके छान्दोग्ये च संवर्गविद्यायां वागादि- भ्यः प्राणः श्रेष्ठः अग्न्यादिभ्यो वायुः श्रेष्ठ इत्यवधारितम् । तत्र किमस्यां विद्यायां वायुप्राणयोः प्रयोगैक्यमुत प्रयोगभेद इति सन्देहे प्रयोगैक्यमिति पूर्वः पक्षः ।